पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१. सर्गः]
43
विभीषणाभिषेकः, रामस्य अयोध्यां प्रत्यागमनं च

सो रावणवधमूलसन्तोषासम्भवात्, रावणवधाद्यज्ञादिप्रवृत्त्याऽस्माकं वृष्ट्यादिर्भविष्यतीति स्मरणजसन्तोषो दूरापास्तः । 'अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानं न विज्ञातं वदन्ति न विदुः श्वस्तनं न लोकालोकौ त एतावन्तो भवन्ति यथाप्रज्ञं हि संभवाः' इति श्रुतेः ॥ ८४ ॥

 [१]अभिषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।
 कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥ ८५ ॥

 लङ्कायामिति । लङ्काराज्यपद इत्यर्थः । तदा-विभीषणाभिषेकानन्तरकाले । रावणवधसीताबन्दीविमोकानन्तरमपि प्राक्प्रतिज्ञातविभीषणाभिषेकलक्षण किञ्चित्कृत्यस्यानिर्वर्तितत्वात्तस्य निर्वृत्तौ सर्वात्मना कृतकृत्यत्वं । अत एव विगतचिकीर्षितकृतिविषयकचिन्तातापः प्रमुमोद-मुदहर्षे व्यत्ययात्परस्मैपदम् ॥ ८५ ॥

 देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।
 अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥ ८ ॥

 'सुप्तोन्मिषितवदुत्तिष्ठन्तु वानराः' इत्येवं रूपं वरं देवताभ्यः प्राप्य । सुहृदः-सुग्रीवविभीषणादयः ॥ ८६ ॥

 भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।
 भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयेत् ॥ ८७ ॥

 भरतस्यान्तिकं रामो हनूमन्तं व्यसर्जयदिति ।-'चतुर्दशे हि संपूर्णे वर्षेऽहनि रघूत्तम । न द्रक्ष्यामि यदित्वां तु प्रवेक्ष्यामि हुता-


  1. यद्यपि सीतासमागमात्पूर्वे विभीषणलङ्काभिषेकः-तथाप्यत्र क्रमो न विवक्षित इति शेयम्-गो-॥ हेति विस्मये प्रसिद्धौ वा-कीदृशं रामस्य सत्यप्रतिज्ञत्वमिति-गो ॥