पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१०९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
42
[बालकाण्डः
अग्निवचनात् रामेण सीतापरिग्रहः

 ततोऽग्निवचनात्सीतां ज्ञात्वा विगतकल्मषाम् ।
 'बभौ रामः संग्रहृष्टः पूजितस्सर्वदेवतैः ॥ ८३ ॥

 ततो जनसंसद्येव 'विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव' इत्येवंरूपादग्निवचनात्स्वयं च विगतकल्मषां ज्ञात्वा लोकस्य च तथात्वं प्रत्याय्य संप्रहृष्टः सर्वदैवतैश्च पूजितो बभौ । एवमेव पाकः क्रमपाठः । [१] एवं स्थिते 'सदेवर्षि' इत्यर्धानन्तरं 'बभौ रामः' इत्यर्धं लेखकदोषादुपरि लिखितमिति कश्चित् ॥ ८३ ॥

 कर्मणा तेन महता त्रैलोक्यं सचराचरम् ।
 सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥ ८४ ॥

 महता तेन रावणवधान्तेन कर्मणा सचराचरं चराचरप्रजासहितं चरप्रजाः-तिर्यगूर्ध्वस्रोतसः । अचरप्रजाः-अर्वाक्स्रोतसः । सदेवर्षिगणं-देवगणाः-इन्द्रादयः । ऋषिगणाः-विश्वामित्रादयः । त्रय एव लोकास्त्रैलोक्यम् । चतुवर्णादित्वात् स्वार्थे ष्यञ् । अत ऊर्ध्वं तिर्यगर्वाक्स्रो तसोरपि बाद ऊर्ध्वस्रोतश्शेषत्वात् । सचराचरं-स्वस्वशेषतिर्यगर्वाक्स्रोतोयुक्तं त्रैलोक्यं त्रिलोकवर्त्यशेषमूर्ध्वस्रोतोमात्रं विशिष्य सदेवर्षिगणं तन्महात्मनो राघवस्य तेन कर्मणा निजैहिकामुष्मिकार्थहेतुतपोयज्ञादि प्रवृत्तिप्रत्यूहनिवर्तकेन तुष्टमभवदिति । अत्र सदेवर्षिगणमिति विशिष्य वचनं रावणस्य मर्त्योपेक्षकत्वात् ; देवर्षिगणयोरेव साक्षादरातिबुध्या नित्योपद्रव करणात् रावणवधाद्विशिष्य हर्षः । एवं लक्षणा-श्रयेण व्याख्या रावणपीडासन्निवृत्तिपरज्ञानप्रसक्तिराहितार्वाक्तिर्यक्स्रोत-


  1. तिलके-'कर्मणा तेन' इत्युत्तरश्लोकः 'ततोग्निवचनात्' इत्यर्धानन्तरं निवेश्य एवं व्याख्यातः । सीतां अङ्गीचकारेति शेषः । तेन कर्मणा सदेवषिंगणं त्रैलोक्यं तुष्टं-तुतोष । तेन प्रहृष्टो रामो सर्वदैवतैश्च पूजितो बभौ-इति ब्याख्यायि ॥