क्षोभयामासेति । लङ्कागमनमार्ग [१]प्रदानौदासीन्यादिति शेषः ॥ ७९ ॥
दर्शयामास चात्मानं समुद्रस्सरितां पतिः ।
समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥ ८० ॥
दर्शयामासेति । शरक्षोभित इति शेषः । समुद्रेति । नलं सेतुमकारयादति । नलेन सेतुं कृतवानित्यर्थः । 'हृक्रोरन्यतरस्याम्' इत्यणौ कर्तुः प्रयोज्यस्य कर्मत्वम् ॥ ८० ॥
तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे।
रामः सीतामनुप्राप्य परां व्रीलामुपागमत् ॥ ८१ ॥
तेनेति । सेतुनेति यावत् । अनुप्राप्य-प्रत्यापद्य । परां व्रीलारक्षोगृहे वत्सरोषितां पुनर्गृहीतवानिति लोकापवादशङ्काजनितां । तथा कथमप्युषितामहमुभय कुलशुद्धो लोकविख्यातकीर्तिवैभवो गृह्णामीति स्वत एव परां व्रीलाम् ॥ ८१ ॥
तामुवाच ततो रामः परुषं जनसंसदि ।
अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥ ८२ ॥
ततः अनन्तरं रामः जनसंसदि तां सीतां प्रति [२]परुष रूक्षविगर्हितं मर्मस्पृग्वचनान्युवाच । लोकस्य नास्यां रामस्य कामादिदोषतः पुनर्जिघृक्षास्तीति प्रत्यायनार्थम् । अथ उक्तरूपवचनान्यमृष्यमाणा सती-सा सीता ज्वलनं विवेश । सतीति पातिव्रत्यबलान्निजेच्छयाग्निप्रादुर्भावनशक्तिमत्वद्योतनाय । वस्तुतो लक्ष्मणप्रादुर्भावितो ज्वलनः ॥ ८२ ॥