पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१ सर्गः]
45
रामराज्यप्रशंसा

 [१]प्रहृष्टमुदितो लोकस्तुष्टः पुष्टस्सुधार्मिकः ।
 निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥ ९० ॥

 अतः परमुत्तरकाव्यविषयं भविष्यत्त्वेनोपदिशति-प्रहृष्टेत्यादि ।-प्रहृष्टः प्रातिस्विकपुत्रपश्वादिसम्पत्त्या ; मुदितः साधारणेन क्षामक्षोभराहित्यजेन मोदेन । लोकः सर्वाः प्रजाः । बहुप्रदाद्भगवतो यावदपेक्षितसांसारिकार्थलाभात्तुष्टः, अत एव पुष्टः-दारिद्र्य कार्श्यरहितः । आमयः-मनःपीडा, रोगः-देहीयो व्याधिः । दुर्भिक्षेण चोरादिजेन च भयेन विवर्जितः । भिक्षाया व्यृद्धिः दुर्भिक्षं, व्युद्ध्यर्थेऽव्ययीभावः; भविष्यतीति शेषः ॥९० ॥

 न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरूषाः क्वचित् ।
 नार्यश्वाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥ ९१ ॥

 पुत्रमरणं न द्रक्ष्यन्तीति । पितृषु स्वेषु जीवत्स्विति शेषः । [२]अविधवा इति । अतितीववैराग्येण भर्त्रनुगमनेन, धवाङ्गमूतसत्पुत्रबत्वेन वेति शेषः ॥ ९१ ॥

 न चाग्निजं भयं किञ्चिन्नाप्सु मञ्जन्ति जन्तवः ।
 न वातजं भयं किञ्चिन्नापि ज्वरकृतं तथा ॥ ९२ ॥
 न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।
 नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥ ९३ ॥


  1. प्रहृष्ट इति हर्षबाह्यचिह्वमुच्यते । रोमाञ्चितार्थकत्वात् । मुदित इति आन्तरमनतिरुच्यते ॥
  2. पतिमरणानन्तरं नावर्तन्तेत्यर्थः । यद्वा विविधाः धवाः यासां ताः विभवाः-व्यभिचारिण्यः-अव्यभिचारिण्यः ॥ कौसल्यादयस्तु पुत्रवत्तया वृद्धतया वा न विधवा इति भावः-गो। वस्तुतस्तु-कौसल्यादीनां वैषव्यं न रामराज्ये प्राप्तं-रामे प्रशासति भविषवा भविष्यन्तीति खलूच्यत इति युक्तम् ॥