पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
2

तिलकः–'रामः अयनं-प्रतिपाद्यः यस्य तत् रामायणम्'
शिरोमणिः–'रामायणं रामप्रतिपादकं, रामप्रापकं वा' ।
 परन्त्वेष्वर्थेषु रामचरितप्रतिपादकत्वात् 'रामायणम्' इत्यर्थः स्वादुतमः ।

एतद्ग्रन्थप्रधानप्रतिपाद्यविषये विप्रतिपत्तिः

 एवमस्य महाकाव्यस्य रामायणमित्याख्यया रामचरितमेव विषय इति स्पष्टत्वेऽपि विवदन्त एव मनीषिणः । एतत्काव्यविषय-प्रतिपादकश्लोकस्य दर्शने युक्त एव च विवादः । यथा-

 [१]'काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
 पौलस्त्यवधमित्येव चकार चरितव्रतः'

इति सोऽयं श्लोकः । अत्र रामचरितस्य, सीताचरितस्य पौलस्त्यवधस्य च विषयत्वे सामान्यतोऽभिहिते-

 गोविन्दराजः-ननु काव्यमिदं नारंभणीयम्; 'काव्यालापांश्च वर्जयेत्' इति निषेधादित्याशङ्क्याह-रामायणमिति । समस्तगुणसंपन्नरामविषयत्वान्नास्य निषिद्धत्वं, किन्तूपादेयत्वमेवेत्यर्थः । इदं च रामचरितप्रतिपादनमप्राधान्येन । प्राधान्येन तु सीताचरितमेव प्रतिपाद्यत इत्याह–कृत्स्नं सीतायाश्चरितमिति । कृत्स्नं रामायणं सीताचरितपरं । अत एवोक्तं श्रीगुणरत्नकोशे- 'श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे' (श्लो. 14) इति । आभाणकश्च-'प्रातर्द्यूतप्रसङ्गेन मध्याह्ने स्त्रीप्रसङ्गतः । रात्रौ चोरप्रसङ्गेन कालो गच्छति धीमताम्' इति[२] अत एव 'कृपावानविकत्थनः' इत्याद्युक्तलक्षणधीरोदात्तरूपो रामः कुशलवाभ्यां रामायणं श्रुतवान् । रामायणस्य रामैकपरत्वे स्वेनैव सदसि श्रवणं न सङ्गच्छते। सीतापरत्वे तु सङ्गच्छते, विरहिणः कामिनीकथा-चरितश्रवणस्य स्वाभाव्यात् । एवं व्यञ्जनावृत्या सीतारामयोः प्रतिपादनमुक्ता शब्दवृत्त्या सिद्धमितिवृत्तमाह-पौलस्त्येति । पौलस्त्यवधस्य फलत्वात्तेन व्यपदेशः । .......इत्येवेत्यस्यायमर्थः-


  1. बाल, 4-7.
  2. महाभारतरामायणभागवतान्यत्र विवक्षितानि. ।