पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (प्रथमः भागः - बालकाण्डः).pdf/१०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

प्रस्तावना

 'वाल्मीकेर्मुनिसिंहस्य कवितावनचारिणः ।
 शृण्वन् रामकथानादं को न याति परां गतिम्'

तथ्यमिदं वाक्यमक्षरशः । बहुभ्यः बहुधा श्रुतमपीदं रामायणं न हि कस्यापि सहृदयस्य रसिकस्य मनस्यलंभावमापादयति ।

 आदिकाव्यत्वेन प्रसिद्धमिदं श्रीमद्वाल्मीकिमहर्षिविरचितं रामायणं न केवलं कालापेक्षया आद्य, अपि च 'क्षणे क्षणे यन्नवतामुपैति तदेव रूपं रमणीयतायाः' इत्युक्तरामणीयकविशिष्टेषु काव्येषु आद्यं-रमणीयतममिति वचनं नूनं विदितवेदनमेव ।

 अत एव बहुशः प्रकाशितस्याप्यस्य रामायणस्य पुनरपि प्रकाशने वयमत्युत्सुका एव । तत्रापि परमिदमामोदस्थानं-यत्-एतावता कालेनाप्रकाशितेन अमृतकतकाख्यव्याख्यानेन समलङ्कृतमिदं इदानीं सहृदयेभ्य उपायनीक्रियत इति ।


'रामायण' पदनिर्वचनम्

 'रामायण' पदं च एवं व्याकुर्वन्ति[१] महेश्वरतीर्थः-'रामः अयनं प्रतिपाद्यः यस्य तत् रामायणम्' गोविन्दराजः–'रामस्य अयनं-रामायणं- रामचरितमित्यर्थः ।

 रामः अय्यते प्राप्यते अनेनेति वा रामायणम् । रामः अयनं प्रतिपाद्यः यस्येति वा रामायणम्'

कतकः–'अयनं चरितं, रामस्यायनं रामायणम्। 'पूर्वपदात् संज्ञायां-'इति णत्वम्'


  1. बाल. 1-99 श्लोकव्याख्यानानि, 4-7 श्लोकव्याख्यानानि च द्रष्टव्यानि ।