पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
60
[अयोध्याकाण्डः
मन्थरोपजापः

 [१]एवमुक्ता तु कैकेयी रुष्टया परुषं वचः ।
 कुब्जया पापदर्शिन्या विषादमगमत्परम् ॥ १६ ॥

 विषादमगमदिति । उक्तरीत्या राजवैरस्यस्फोरणात् ॥ १६ ॥

 कैकेयी त्वब्रवीत् कुब्जां कच्चित्क्षेमं न मन्थरे ।
 [२]विषण्णवदनां हि त्वां लक्षये भृशदुःखिताम् ॥ १७ ॥

 कच्चित् क्षेमं नेति । मह्यामिति शेषः । हि-यस्मात् अस्मत्सम-सुखदुःखां त्वां अद्य भृशदुःखितां लक्षये, अतः क्षेमं न कञ्चिदिति योजना ॥ १७ ॥

 मन्थरा तु वचः श्रुत्वा कैकेय्या मधुराक्षरम् !
 उवाच क्रोधसंयुक्ता वाक्यं वाक्यविशारदा ॥ १८ ॥
 सा विषण्णतरा भूत्वा कुब्जा तस्या हितैषिणी ।
 विषादयन्ती प्रोवाच भेदयन्ती च [३]राघवम् ॥ १९ ॥

 'तस्या हितैषिणी' इति लोकदृष्ट्या । विषादयन्ती भेदयन्तीति शतृद्वयं हेतौ । राज्याश्रयो ज्ञातिगामित्वानिष्टप्रकाशनेन विषादहेतवे सामान्यतः पुत्रत्वप्रयुक्तरामविषयकस्नेहमात्रभेदहेतवे चेत्यर्थः ॥ १९ ॥

 अक्षयं सुमहद्देवि ! प्रवृत्तं [४]त्वद्विनाशनम् ।
 रामं दशरथो राजा यौवराज्येऽभिषेक्ष्यति ॥ २० ॥


  1. कैकयी परुषं वच उक्ता-'अप्रधाने दुहादीनां' इत्यप्रधाने कर्मकारके निष्ठा-गो.
  2. एतदनन्तरं-'मन्थरे तद्धृवीह्यद्य कुतस्ते भयमागतम् ।' इत्यधिकं-ङ,
  3. राघवं प्रति पुत्रत्वप्रयुक्तस्नेहं भेदयन्तीत्यर्थः-ति.
  4. त्वद्विनाशनं-त्वद्विनाशः-गो.