पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
59
भेदयामास कैकेयीं अभिषेकनिरोधने

 धात्रयास्तु वचनं श्रुत्वा कुब्जा क्षिप्रममर्षिता ।
 कैलासशिखराकारात् प्रासादादवरोहत ॥ १२ ॥

 अवरोहत । अवारुहदिति यावत् ॥ १२ ॥

 सा दह्यमाना कोपेन मन्थरा पापदर्शिनी ।
 शयानामेत्य कैकेयीमिदं वचनमब्रवीत् ॥ १३ ॥

 पापदर्शिनीति । इनिर्वा णिनिर्वा । शयानामिति-सुखित्वात् प्रभ्वीत्वाच्च ॥ १३ ॥

 उत्तिष्ठ मूढे ! किं शेषे भयं त्वामभिवर्तते ।
 उपप्लुतमघौघेन किमात्मानं न बुध्यसे ॥ १४ ॥

 अघौघेन-दुःखसमूहेन । 'अघं दुरितदुःखयोः' ॥ १४ ॥

 [१]अनिष्टे सुभगाकारे सौभाग्येन विकत्थसे ।
 चलं हि तव सौभाग्यं नद्याः स्रोत इवोष्णगे ॥ १५ ॥

 अनिष्ठ इति । सुखशयनादिलक्षणे तव सुभगाकारे इदानीमनिष्टे-अनुचिते-अनिष्टपर्यवसायिनि सति कथं सौभाग्ये तावके विकत्थसे-व्यर्थवर्णनं करोषि । का मे मत्सौभाग्यविकत्थनस्य प्रसक्तिरित्यत्राह-चलं हीति । तरणावुष्णगे-ग्रीष्मगे सति । नद्याः स्रोत इवेत्यनेन राज्ञस्त्वयीदानीं वैरं स्यात्, तेन त्वत्सौभाग्यं क्षीणप्रायमित्युक्तं भवति । 'निदाघ उष्णोपगम उष्णः' इत्यमरः ॥ १५ ॥


  1. सुभगाकारे, आकारमात्रेणैव तव सौभाग्यदे । वस्तुतः-अनिष्टे-अप्रियकर्तरिराज्ञि । (विषयसप्तमी)-ति. वस्तुतो राशोऽनिष्टे सुभगाकारे-आपाततः सौभाग्यवतीव भासमाने, असुभगाकार इति वा छेदः-गो । एवञ्च पदद्वयमिदं सम्बोधनपरम् । अथवा अनिष्टेति निन्दा, सुभगाकारेति मर्मोक्तिश्च ।