पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
58
[अयोध्याकाण्डः
मन्थरोपजापः

 [१]उत्तमेनाभिसंयुक्ता हर्षेणार्थपरा सती ।
 राममाता धनं किन्नु जनेभ्यः संप्रयच्छति ॥ ८ ॥

 अर्थपरा नानाविधधनधान्यपदार्थग्रहणतत्परा सती गृहीतं तद्धनं जनेभ्यः किन्नु-कस्मात् प्रयच्छति ॥ ८ ॥

 अतिमात्रप्रहर्षोऽयं [२]किं जनस्य च शंस मे ।
 कारयिष्यति किं वाऽपि संप्रहृष्टो महीपतिः ॥ ९ ॥

 संप्रदृष्टो महीपतिः किं वा कारयिष्यतीति । मन्थरायाः रामाभिषेकदिवसात्पूर्वदिवससायंकाल एव कौसल्यादिव्यापारानुभवात् तदा महीपतेरपि हृष्टत्वात् हृष्टमहीपतिदर्शनं[३] । किं वेति । देवाद्युत्सवमिति शेषः ॥ ९ ॥

 [४][५]विदीर्यमाणा हर्षेण धात्री परमया मुदा ।
 आचचक्षेऽथ कुब्जायै भूयसीं राघवे श्रियम् ॥ १० ॥
 श्वः पुष्येण जितक्रोधं यौराज्येन [६]राघवम् ।
 राजा दशरथो राम[७]मभिषेचयिताऽनघम् ॥ ११ ॥

 विदीर्यमाणेति-अन्तर्गतहर्षौत्कट्यात्, देहपोषमुखविकासादिना बहिः प्रसरणाद्विदीर्यमाणेवोपलक्षिता मुदा आचचक्षे ॥ ११ ॥


  1. अर्धपरा सती-अर्धपरा सत्यपि ॥ उत्तमेन हर्षेणाभिसंयुक्ता-गो. अर्थपरास्वेष्टार्थपरा-ति.
  2. किं ? किम्मूलकः ?
  3. संप्रहृष्ट इति विधेयविषेषणं वा ।
  4. उदीर्यमाणा-ङ.
  5. स्वानन्दसन्दोहपरीवाहवशात् प्रतिकूलाया अपि तस्यै मुदाऽकथयदित्यर्थः ॥
  6. चानघम्-ङ. च
  7. मभिषेक्ता हि राघवम्-ङ. च.