पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
57
रामाभिषेकवृत्तान्तं श्रुत्वैवोद्वेगमाप सा

 वरार्हाभिः-वराः-श्रेष्ठाः अर्हाः-विचित्रवस्त्रपट्टदुकूलादि क्लृप्तत्वेन पताकार्हास्तथा । न हि श्रेष्ठश्वेतवस्त्रमात्रं पताकार्हम् । शिरसा च स्नाताः जनास्तथा । अभ्यङ्गस्नानवन्त इति यावत् । विशिष्येदं विशेषणम् स्त्रीशूद्रविषयं । त्रैवर्णिकानां शिरस्नानं नित्यसिद्धम् ॥ ३ ॥

 [१]माल्यमोदकहस्तैश्च द्विजेन्द्रैरभिनादिताम् ।
 शुक्लदेवगृहद्वारां सर्ववादित्रनिस्वनाम् ॥ ४ ॥

 माल्यमोदकेति । दानप्राप्तैरितिशेषः । शुक्लदेवगृहद्वारामिति । चन्दनोदकोपलेपनेनेति शेषः ॥ ४ ॥

 संप्रहृष्टजनाकीर्णां ब्रह्मघोषाभिनादिताम् ।
 प्रहृष्टवरहस्त्यश्वां संप्रणर्दितगोवृषाम् ॥ ५ ॥
 प्रहृष्टमुदितैः पौरै[२]रुच्छ्रितध्वजमालिनीम् ।
 अयोध्यां मन्थरा दृष्ट्वा परं विस्मयमागता ॥६॥

 पौरैरिति । उपलक्षितामितिशेषः ॥ ६ ॥

 सा हर्षोत्फुल्लनयनां पाण्डरक्षौमवासिनीम् ।
 अविदूरे स्थितां दृष्ट्वा धात्रीं पप्रच्छ मन्थरा ॥ ७ ॥

 अविदूर इति। मन्थराधिरूढहर्म्यात्यासन्नहर्म्य इत्यर्थः । धात्रीं- रामस्येति शेषः । तस्या अपि कौसल्यातोऽभ्यधिकपुत्रस्नेहवत्त्वात् हर्षोत्फुल्लनयनामित्यादिविशेषणम् ; हर्षेण विदीर्यमाणेत्यादि (श्लो. १०)विशेषणञ्च ॥ ७ ॥


  1. दानप्राप्तमाल्यमोदकहस्तैः; रामोपायनमाल्यमोदकरूपमङ्गलद्रव्यहस्तैरितिवा-ति.
  2. पौरैरुच्छ्रितेत्यत्र प्रकृतोत्सवकृतध्वजसम्बन्ध उच्यते-गो.