पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
56
[अयोध्याकाण्डः
मन्थरोपजापः

 अथ देवकार्याय रावणनाशाय देवैरावेशितदुर्मत्याः मन्थराया रामाभिषेकविघ्ने प्रवृत्तिः । वाचः क्रमवर्तित्वात् वाल्मीकि रामाभिषेक-निश्चितदिवसस्य प्रातः स्नानप्रभृतिवृत्तान्तमुपवर्ण्य, पूर्वरात्रिप्रवृत्तराज-भवनवृत्तान्तं वर्णयितुमुपक्रमते-ज्ञातीति । यतो-यस्मात्; मन्थरा ज्ञातिदासी-रामज्ञातेर्भरतस्य दासी यतश्च कैकेय्या सह नित्यमुषिता; तस्मात्सा रामाभिषेकवचनं श्रुत्वा कोपेन दह्यमाना सती कैकेयीमिंद वचनमब्रवीत् [१]इत्यग्रेण (१३ श्लो.) सम्बन्धः । लोकस्थित्या स्वस्वीया- भ्युदयस्यैव (सर्व) इष्टत्वात्, ज्ञातिश्रैष्ठ्यासू यायाश्चानादिसिद्धत्वात्, दुःखेन तद्विघटने प्रवृत्तिः । "कैकेय्याः ज्ञातीनां दासी; यतो जाता-यतः कुतश्चिजाता, तस्या जन्म ज्ञायत इत्यर्थः' इत्यादिकं[२] यद्वा भट्टः कथयति । तत्सर्वं रामश्रद्धांजाड्य जमन्थरारोष-मूलप्रलापमात्रम् । प्रासादमित्यादि-यदृच्छयाऽऽरुरोहेति । ज्ञाति-दासीत्यनुकर्षः ॥ १ ॥

 सिक्तराजपथां कृत्स्नां प्रकीर्ण[३]कमलोत्पलाम् ।
 अयोध्यां मन्थरा तस्मात् प्रासादादन्ववैक्षत ॥ २ ॥

 प्रकीर्णानि कमलान्युत्पलानि च यस्यां सा । तस्मादित्यादि । प्रासादे स्थित्वाऽन्ववैक्षतेत्यर्थः । 'अधिकरणे च ल्यब्लोप उपसंख्यानम्' इति पञ्चमी ॥ २ ॥

 पताकाभि[४]र्वरार्हाभिः ध्वजैश्व समलंकृताम् ।
 [५]सिक्तां [६].चन्दनतोयैश्च शिरस्स्नातजनैर्युताम् ॥ ३ ॥


  1. इदं तिलकेऽनूद्य-'रामाभ्युदयस्याग्रे धात्रीमुखेन श्रवणस्य वक्ष्यमाणतया तस्यैव चामर्षहेतुत्वस्य च वक्ष्यमाणतया अत्रत्यस्य तत्रान्वयानौचित्यात्' इति दूषितम्.
  2. गोविन्दराजः.
  3. कुसुमोत्कराम्-ङ.
  4. वरार्हाभिः-श्रेष्ठाभिः-गो.
  5. वृतां छन्दपथैश्चापि-ङ.
  6. छन्दपथैः-स्वच्छन्दगमनयोग्यवीथीभिः-गो