पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
55
दासी काचन कैकेय्याः कुब्जाऽऽसौन्मन्थराभिधा

 [१]ततस्तदिन्द्रक्षयसन्निभं पुरं
  दिदृक्षुभिर्जानपदै[२]रुपागतैः ।
 समन्ततः सस्वनमाकुलं बभौ
  समुद्रयादोभिरि[३]वार्णवोदकम् ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे षष्ठः सर्गः


 इन्द्रक्षयः-इन्द्रनिवासः । हरि (२८) मानः सर्गः ॥ २८ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे षष्ठः सर्गः




सप्तमः सर्गः
[मन्थरोपजापः]

 [४]ज्ञातिदासी [५]यतो नित्यं कैकेय्यास्तु सहोषिता ।
 प्रासादं चन्द्रसङ्काशमारुरोह यदृच्छया ॥ १ ॥


  1. अयोध्यापुरस्यामरावतीसादृश्ये वक्तव्ये तत्सारभूतेन्द्रभवनदृष्टान्तीकरणात् अयोध्याया अतिरमणीयता द्योतते-गो. उपाहितैः-उपागतैः ।
  2. रुपाहितैः-ङ
  3. कर्णावतंसादिवदविश्लेषप्रदर्शनाय समुद्रशब्दः- गो.
  4. ज्ञातिदासी-कैकेय्या बन्धुदासौ-यतो जाता-यत्रकुत्रचिज्जाता, अविज्ञातदेशमातापितृकेत्यर्थः । अतः कैकेन्या ज्ञातिदासीत्वमपि
    स्वोदरप्रपूरणार्थं कृतमित्यवगन्तव्यम् ।-यद्वा यतो जाता-यतः कुतश्चिज्जाता, तादृशी नामयोध्यायां जननासंभवात् । यद्वा तन्नामजातिनिरूपणायोग्यतया तथा निर्देशः । आचार्यास्तु-देवैरेव स्वकार्यार्थे कैकेयीं भेदयितुं प्रेषितेति देवरहस्यस्य गोप्यतया तथा
    निर्देश इत्याहुः-गो. तिलकेऽप्ययमर्थः–'मन्थरा नाम कार्यार्थमप्सरा प्रेषिता सुरैः । दासी काचन कैकेय्यै दत्ता केकयभूभृता' इति पाद्मवचनेन समर्थितः ।
  5. यतो जाता-ङ. च.