पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
54
[अयोध्याकाण्डः
पौरोत्साहः

 सर्वे ह्यनुगृहीताः स्मो यन्नो रामो महीपतिः ।
 चिराय भविता गोप्ता [१]दृष्टलोकपरावरः ॥ २२ ॥

 दृष्टलोकपरावर इति । भावप्रधाननिर्देशः । तत्तत्पुरुषप्राशस्त्याप्राशस्त्य इत्यर्थः ॥ २२ ॥ यथावगत-

 अनुद्धतमना विद्वान् धर्मात्मा भ्रातृवत्सलः ।
 यथा च भातृषु स्निग्धस्तथाऽस्मास्वपि राघवः ॥ २३ ॥
 चिरं जीवतु धर्मात्मा राजा दशरथोऽनघः ।
 यत्प्रसादेनाभिषिक्तं रामं द्रक्ष्यामहे वयम् ॥ २४ ॥
 एवंविधं कथयतां पौराणां शुश्रुवुः परे ।
 दिग्भ्यो विश्रुतवृत्तान्ताः प्राप्ता जानपदा जनाः ॥ २५ ॥

 श्रुतरामाभिषेकवृत्तान्ता जानपदा जना अपि दिग्भ्यः-नानादिग्भ्यः प्राप्ताः ॥ २५ ॥

 ते तु दिग्भ्यः पुरीं प्राप्ता द्रष्टुं रामाभिषेचनम् ।
 [२]रामस्य पूरयामासुः पुरीं जानपदा जनाः ॥ २६ ॥

 ते तु रामस्य पुरीं पूरयामासुरिति योजना ॥ २६ ॥

 जनौघैस्तैर्विसर्पद्भिः शुश्रुवे तत्र निस्वनः ।
 पर्वसूदीर्णवेगस्य सागरस्येव निस्वनः ॥ २७ ॥


  1. दृष्टे लोके परावरे-उत्कृष्टापकृष्टवस्तुनी येन स तथोक्तः-गो. दृष्टाः लोकाः-भुवनानि-परावराः-उत्तमाधमाश्च येन सः-शि.
  2. कविरपि रामाभिषेकस्मरण-जानन्दवशात्-रामस्य पुरीमित्याह ।