पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ सर्गः]
53
रामामिष्टवसंयुक्ताः कथाश्चक्रुर्मिथो जनाः

 रामाभिष्टवयुक्ताश्च कथाश्चक्रुर्मिथो जनाः ।
 रामाभिषेके संप्राप्ते चत्वरेषु गृहेषु च ॥ १५ ॥
 बाला अपि क्रीडमानाः गृहद्वारेषु संघश: ।
 रामाभिष्टवसंयुक्ताः चक्रुरेव मिथः कथाः ॥ १६ ॥
 कृतपुष्पोपहारश्च धूपगन्धाधिवासितः ।
 राजमार्गः कृतः श्रीमान् पौरै रामाभिषेचने ॥ १७ ॥
 [१]प्रकाशीकरणार्थं च निशागमनशङ्कया ।
 दीपवृक्षांस्तथा [२]चक्रुरनुरथ्यासु सर्वशः ॥ १८ ॥

 अभिषेकानन्तरं गजस्कन्धाधिरूढतया अभिषेकालंकारप्रदर्शनार्थं निर्याणात्पूर्वमेव यदि कार्यवशान्निशा आयाति तदा श्रीरामालंकारप्रदर्शनार्थं दीपवृक्षान्-वृक्षवनानाशाखानिर्मितदीपस्तम्भविशेषानित्यर्थः ॥

 अलंकारं पुरस्यैवं कृत्वा तत्पुरवासिनः ।
 आकांक्षमाणा रामस्य यौवराज्याभिषेचनम् ॥ १९ ॥
 समेत्य सङ्घशः सर्वे चत्वरेषु सभासु च ।
 कथयन्तो मिथस्तत्र प्रशशंसुर्जनाधिपम् ॥ २० ॥
 अहो महात्मा राजाऽयं इक्ष्वाकुकुलनन्दनः ।
 ज्ञात्वा यो वृद्धमात्मानं रामं राज्येऽभिषेक्ष्यति ॥ २१ ॥


  1. प्रकाश-ङ.
  2. अनुरथ्यासु-रथ्यासु रथ्यासु, विभक्तेर्लुगभाव आर्षः-गो. अनुगथ्यासु-रथ्यापार्श्वयोः-ति.