पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
52
[अयोध्याकाण्डः
पौरोत्साहः

 ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम् ।
 प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ॥ १० ॥

 शोभयितुं-अलङ्कर्तुम् ॥ १० ॥

 शुभ्राभ्रशिखराभेषु देवतायतनेषु च ।
 चतुष्पथेषु रथ्यासु [१]चैत्येष्वट्टालकेषु च ॥ ११ ॥
 नानापण्यसमृद्धेषु वणिजामापणेषु च ।
 कुटुम्बिनां समृद्धेषु श्रीमत्सु भवनेषु च ॥ १२ ॥

 चैत्यं-बुद्धालयः । अट्टालकाः-सावच्छेदानि प्राकारसरांसि ॥

 सभासु चैव सर्वासु [२]वृक्षेष्वालक्षितेषु च।
 ध्वजाः समुच्छ्रिताः चित्राः पताकाश्चाभवंस्तदा ॥ १३ ॥

 आलाक्षतेषु वृक्षेष्विति। आरात्तत्तद्गृहद्वारलक्षितेषु नारिकेलपनसादितोरणवृक्षेषु ॥ १३ ॥

 नटनर्तकसंघानां गायकानां च गायताम् ।
 मनःकर्णसुखा वाचः शुश्राव जनता ततः ॥ १४ ॥

 नटयन्तीति नटाः-सूत्रधाराः ॥ १४ ॥


  1. चैत्येषु-बौद्धालयेषु अट्टालकेषु-प्राकारोपरि युद्धार्थपरिकल्पितचतुस्तंभमण्डपेषु-गो. चैत्यं-चैतन्यं-येष्वस्तीति अर्शआद्यजन्तः देवतायतनादि विशेषणम्-शि. परन्तु सुन्दरकाण्डे 'चैत्यप्रासादः' (4-31) इत्यत्र चैत्यपदस्य देवालयसामान्यपरत्वं
    सर्वव्याख्यातृसम्मतं वर्तते। 'चैत्यमायतनं तुल्ये' इत्यमरः (द्वि. पुर.7 श्लो.) अत्र-सुधा "चीयते--'चित्याग्निचित्ये च' (पा. सू. 3-1-132) इति साधु: । चित्याया इदं-'तस्येदम्' (पा. सू. 4.3-120) इत्यण्-यज्ञस्थानस्य" इति । एवं च
    चैत्यं यज्ञशाला इति स्यात् ।
  2. आलक्षितेषु-अत्युच्चेषु । समुन्नतत्वाद्दूरादप्यक्षिगोचरेष्वित्यर्थः-गो.ति. ध्वजाः-सचिह्नाः, पताकाः-चिह्नरहिताः-गो.