पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/९०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६ सर्गः]
51
अलंचक्रुरयोध्यां ते नानालङ्कारवस्तुभिः

 वाग्यतः सह वैदेह्या भूत्वा नियतमानसः ।
 [१]श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ॥ ४ ॥

 आशास्य-संप्रार्थ्य । विष्णोरायतन इति । निजभवनवर्तिनीति शेषः ॥ ४ ॥

 एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः ।
 अलंकारविधिं कृत्स्नं कारयामास वेश्मनः ॥ ५ ॥
 तत्र शृण्वन् सुखा वाचः सूतमागधवन्दिनाम् ।
 पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ॥ ६ ॥

 सूताः-पौराणिकाः । मागधाः-वंशावलिकीर्तकाः । वन्दिनः-स्तुतिपाठकाः ॥ ६ ॥

 तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम् ।
 [२]विमलक्षौमसंवीतो वाचयामास च द्विजान् ॥ ७ ॥

 वाचयामासेति-पुण्याहामति शेषः ॥ ७ ॥

 तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा ।
 अयोध्यां पूरयामास तूर्यघोषानुनादितः ॥ ८ ॥

 तूर्यघोषानुनादितः-सञ्जातानुनादः ॥ ८ ॥

 [३]कृतोपवासं तु तदा वैदेह्या सह राघवम् ।
 अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ॥ ९ ॥


  1. स्वस्य साक्षाद्भगवदवतारत्वेऽपि श्रीरङ्गविग्रहार्चोपसर्जनभावः स्वावतारानुमतक्षत्रियधर्मानुगुणः-गो.
  2. अनेन नूतनवस्त्रपरिवृत्त्या प्रातर्गौणस्ननमुक्तम्- गो.
  3. राघवं कृतोपवासं श्रुत्वेत्यन्वयः ।