पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
50
[अयोध्याकाण्डः
पौरोत्साहः

 आसनं हित्वेति । प्रत्युत्थायेति यावत् । पप्रच्छेति । अनुष्ठितकृत्यमिति शेषः । तत् कृतमिति । यदाज्ञप्तं तत् कृतमित्यर्थः । तार (२६) मानः सर्गः ॥ २६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे पञ्चमः सर्गः


षष्ठः सर्गः
[पौरोत्साहः ]

 गते पुरोहिते रामः स्नातो नियतमानसः ।
 सह पत्न्या विशालाक्ष्या [१]नारायण[२]मुपागमत् ॥ १ ॥

 अथ आदरात् पुनश्चाभिषेकसामग्रीसन्नाहवर्णनम्-गत इत्यादि । उपागमदिति । ध्यानेनेति शेषः । 'नाविष्णुः पृथिवीपतिः' इति शास्त्रात् विष्णोरेव राज्यायोपासितव्यत्वात् सर्वेषामेषां विष्णूपासना ॥ १ ॥

 प्रगृह्य शिरसा पात्रीं हविषो विधिवत्ततः ।
 [३]महते दैवतायाज्यं जुहाव ज्वलितेऽनले ॥ २ ॥

 शिरसा पात्रीं प्रगृह्येति । नमस्कारपूर्वमिति यावत् । महते दैवतायेति । विराड्रूपाय विष्णव इत्यर्थः ॥ २ ॥

 शेषं च हविषस्तस्य [४]प्राश्याशास्यात्मनः प्रियम् ।
 ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ॥ ३ ॥


  1. अत्र नारायण इति श्रीरङ्गनायक उच्यते, उत्तरत्र तस्येव विभीषणाय दानोक्तेः ओ
  2. उपागमत्-उपासांचक्रे-ति
  3. महते दैवताय-नारायणाय- गो. ति.
  4. आत्मनः प्रियं-राज्याभिषेकाविधरूपं । वस्तुतो रावणवधफलकवनमगनरूपं-ति.