[१]प्रजालङ्कारभूतं च जनस्थानन्दवर्धनम् ।
उत्सुकोऽभूञ्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ २० ॥
प्रजानामलङ्काराः भूताः-सिद्धाः यस्मिन् तत्तथा । सर्वतः समुद्भूतप्रजालङ्कारवतीत्यर्थः । द्रष्टुमुत्सुकोऽभूदिति । प्रासादेषु स्थित्वेति शेषः ॥ २० ॥
एवं तं जनसंबाधं राजमार्गं पुरोहितः ।
व्यूहन्निव जनौघं तं शनैराजकुलं ययौ ॥ २१ ॥
व्यूहन्निति । व्यूहविभाजनं कुर्वन्नित्यर्थः ॥ २१ ॥
सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ २२ ॥
तमागतमभिप्रेक्ष्य हित्वा [२]राजाऽऽसनं नृपः ।
पप्रच्छ स च तस्मै तत् कृतमित्यभ्यवेदयत् ॥ २३ ॥
तेन चैव तदा तुल्यं सहासीनाः सभासदः ।
आसनेभ्यः समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ २४ ॥
गुरुणा त्वभ्यनुज्ञातः मनुजौघं विसृज्य तम् ।
विवेशान्तःपुरं राजा सिंहो गिरिगुहामिव ॥ २५ ॥
तदग्र्यवेषप्रमदाजनाकुलं
महेन्द्रवेश्मप्रतिमं निवेशनम् ।
विदपियश्चारु विवेश पार्थिवः
शशीव तारागणसंकुलं नभः ॥ २६ ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे पञ्चमः सर्गः