पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
48
[अयोध्याकाण्डः
अभिषेकपूर्वाङ्गचर्याचरणम्

 स राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।
 निस्सृत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥ १५ ॥

 राजभवनं-मूलराजभवनम् ॥ १५ ॥

  [१]बृन्दबृन्दैरयोध्यायां राजमार्गाः समन्ततः ।
 बभूवुरभिसंबाधाः कुतूहलजनैर्वृताः ॥ १६ ॥

 बृन्दबृन्दैः–बृन्दबृन्दतया सहितैः कुतूहलजनैः सम्बाधा बभ्रुवुरिति योजना ॥ १६ ॥

 जनबृन्दोर्मिसंघर्षहर्षस्वनवृतस्तदा ।
 बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ १७ ॥

 जनबृन्दरूपाणामूर्मिणां संघर्षपूर्वको यो हर्षस्वनः, तद्वृत इत्यर्थः । एतेन सागरोपमासमर्थनं कृतम् ॥ १७ ॥

 सिक्तसंमृष्टरथ्या च तदहर्वनमालिनी ।
 आसीदयोध्या नगरी समुच्छ्रितगृहध्वजा ॥ १८ ॥

 तदहः-तस्मिन्नहनि । वनमाला-तोरणमाला, व्रीह्यादित्वादिनिः ॥ १८ ॥

 तदा ह्ययोध्यानिलयः सस्त्रीबालाकुला[२]जनः ।
 रामाभिषेकमाकांक्षन् [३][४]आकाङ्क्षन्नुदयं रखेः ॥ १९ ॥

 स्त्रीबालैः सहितः सस्त्रीबालः; सं चासावाकुलश्च सन्तोषात् संभ्रान्तचित्तः तथा । रामाभिषेकमाकांक्षन्, तदर्थमिति शेषः, रवेरुदयमाकांक्षन् अभूत् ॥ १९ ॥


  1. बृन्दानुबद्धानि बृन्दानि येषां ते बृन्दबृन्दाः-गो. बृन्दानां बृन्दै:-ति.
  2. बलो जनः-ङ.
  3. उदयमाकाङ्क्षत्- गो.
  4. आकाङ्क्षदुदयं-ड.