स चैनं प्रश्रितं दृष्ट्वा संभाष्याभिप्रसाद्य च ।
प्रियार्हं हर्षयन् राममित्युवाच पुरोहितः ॥ ८ ॥
संभाष्याभिप्रसादनं-'सुखमुपविष्टोऽसि वत्स' इत्यादिरूपम् ॥
प्रसन्नस्ते पिता राम ! यौवराज्यमवाप्स्यसि ।
उपवासं भवानद्य करोतु सह सीतया ॥ ९ ॥
प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ १० ॥
इत्युक्त्वा स तदा रामं उपवासं यतव्रतम् ।
[१]मन्त्रवत् कारयामास वैदेह्या सहितं मुनिः ॥ ११ ॥
रामं उपवासमिति प्राग्वत् (श्लो.२) कर्मत्वम् ॥ ११ ॥
ततो यथावद्रामेण स राज्ञो गुरुरार्चितः ।
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ १२ ॥
राज्ञः-दशरथस्य ॥ १२ ॥
सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।
सभाजितो विवेशाथ ताननुज्ञाप्य सर्वशः ॥ १३ ॥
विवेशेति। स्वं वेश्मेति शेषः । तान्-सुहृदः ॥ १३ ॥
प्रहृष्टनरनारीकं रामवेश्म तदा बभौ ।
यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ १४ ॥
- ↑ मन्त्रविद्-ङ.