पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
46
[अयोध्याकाण्डः
अभिषेकपूर्वाङ्गचर्याचरणम्

 तथेति च स राजानं उक्त्वा वेदविदां वरः ।
 स्वयं वसिष्ठो भगवान् ययौ रामनिवेशनम् ॥ ३ ॥
 उपवासयितुं रामं [१][२]मन्त्रवन्मन्त्रकोविदः ।
 ब्राह्मं रथवरं युक्तमास्थाय सुधृतव्रतः ॥ ४ ॥

 स्वयमिति । [३]रामविषयराजशासनत्वादेव ब्राह्मं-ब्राह्मणवहनार्हम् ॥ ४ ॥

 स रामभवनं प्राप्य [४].पाण्डराभ्रघनप्रभम् ।
 तिस्रः कक्ष्या स्थेनैव विवेश मुनिसत्तमः ॥ ५ ॥

 अभ्रे-आकाशे विद्यमानो घनः-अभ्रघनः । एतेन पर्वतस्थ-घनव्यावृत्तिः । ततः पाण्डरशब्देन कर्मधारयः, तस्येव प्रभा यस्य तत् तथा ॥ ५ ॥

 तमागतमृषिं रामस्त्वरन्निव ससंभ्रमम् ।
 मानयिष्यन् स मानार्हं निश्चक्राम निवेशनात् ॥ ६ ॥

 त्वरन्निव-त्वरन्नेव । मानयिष्यन्निति । प्रत्युत्थानरूपं सम्मानं करिष्यन् ॥ ६ ॥

 अभ्येत्य त्वरमाणश्च स्थाभ्याशं मनीषिणः ।
 ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ ७॥


  1. 'तदर्हम्' इति वतिप्रत्ययान्तमव्ययमिदम् । युक्तं- वाजिभिस्संयोजितम् ।
  2. मन्त्रवन्मन्त्रकोव्दिम्-ङ. च.
  3. आदेष्टपि राजा, आदेष्टव्यश्च राजकुमारः, अतः स्वयं ययौ इत्यर्थः ।
  4. पाण्डुराभ्रमूर्तसदृशप्रभम्-गो. पाण्डुराभ्रवन्निबिडप्रभम्-ति