पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५ सर्गः]
45
वसिष्ठमादिशद्राजा तत्तत्कार्यस्य साधने

 इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च ।
 अभ्यनुज्ञाप्य सीतां च जगाम स्वं निवेशनम् ॥ ४५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे चतुर्थः सर्गः


 अभ्यनुज्ञाप्येति । [१]लक्ष्मणद्वारेति शेषः । जानातेः ज्ञपेर्वा हेतुमण्ण्यन्ताल्लयप् | मघा (४५) मानः सर्गः ॥ ४५ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे चतुर्थः सर्गः


पञ्चमः सर्गः
[अभिषेकपूर्वाङ्गचर्याचरणम् ]

 सन्दिश्य रामं नृपतिः श्वोभाविन्यभिषेचने ।
 पुरोहितं समाहूय वसिष्ठमिदमब्रवीत् ॥ १ ॥
 गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन !
 श्रेयसे राज्यलाभाय वध्वा सह यतव्रतम् ॥ २ ॥

 अथ उपवासस्य पुरोहितेन संकल्पमन्त्रादिसाध्यत्वात् तदर्थं पुरोहितनियोगः–सन्दिश्येत्यादि । उपवासं काकुत्स्थमिति । ‘गति-बुद्धि' इत्याद्यनुवर्तने, 'हृक्रोरन्यतरस्याम्' इति कर्मत्वं अणौ कर्तुः ॥


  1. मातृभ्यामिति शेषः-गो. सीतां स्वं चाभ्यनुज्ञाप्य-सीतायै स्वस्मै च मातृभ्यामनुशां दापयित्वा-ति.