पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
44
[अयोध्याकाण्डः
रामाभिषेकनिश्चयः

 कल्याणे नक्षत्र इति । शुभकाल इति यावत् । जात इति । जनित इति यावत् येनेति । बहुगुणशुभकालजन्मप्राबल्येनेति यावत् ॥ ४० ॥

 अमोघं बत मे [१]क्षान्तं पुरुषे पुष्करेक्षणे ।
 येयमिक्ष्वाकुराज्यश्रीः पुत्र ! त्वां संश्रयिष्यति ॥ ४१ ॥

 पुष्करेक्षणे पुरुषे यत् क्षान्तं-क्षमाप्रधानं तपोऽनुष्ठितं, तत् अमोघं बत-सफलं जायते किल । बतेति हर्षे ॥ ४१ ॥

 इत्येवमुक्तो मात्रेदं रामो भ्रातरमब्रवीत् ।
 प्राञ्जलिं प्रह्णमासीनं अभिवीक्ष्य स्मयन्निव ॥ ४२ ॥

 [२]रामः स्वप्रयोजनं लक्ष्मणाय साधारणीकरोति-इत्येवमुक्त इति । इवशब्द इह सर्वत्र एवार्थे ॥ ४२ ॥

 लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुन्धराम् ।
 द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता ॥ ४३ ॥

 प्रशाधीति । शाभावस्यासिध्या धित्वम् । अन्तरात्मा-प्राणः ॥

 सौमित्रे ! भुङ्क्ष्व भोगांस्त्वं इष्टान् राज्यफलानि च ।
 जीवितं च हि राज्यं च त्वदर्थमभिकामये ॥ ४४ ॥

 भोगाः-विषयभोगाः, राज्यफलं-अर्थो धर्मश्च तच्च प्राप्नुहि । त्वदर्थमिति । न स्वप्रयोजनाय ॥ ४४ ॥


  1. क्षान्तं–व्रतोपवासादिक्लेशसहनम्-गो.
  2. रामस्य प्रयोजनं-क.