पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
43
राज्ञो नियोगं रामस्तु कोसल्यायै न्यवेदयत्

 अम्ब! पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि ।
 भविता श्वोऽभिषेकोऽयं यथा मे शासनं पितुः ॥ ३५ ॥

 सीतयाऽप्युपवस्तव्या रजनीयं मया सह ।
 एवमृत्विगुपाध्यायैः सह मामुक्तवान् पिता ॥ ३६ ॥

 एवमिति कथम् ? इत्यतः-सीतयेत्यादि । न केवलं पितुरेवायं नियोगः, अपि तु सर्वनियोक्तृनियोग इत्याह-एवमृत्विगित्यादि ॥ ३६ ॥

 यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने ।
 तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय ॥ ३७ ॥

 मङ्गलानि-[१]मङ्गलार्हगन्धमाल्याम्बराभरणादीनि ॥ ३७ ॥

 एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकांक्षितम् ।
 हर्षबाष्प[२]कलं वाक्यं इदं राममभाषत ॥ ३८ ॥

 हर्षजो बाष्पः,तेन कलं-अव्यक्तमधुरम् ॥ ३८ ॥

 वत्स ! राम ! चिरं जीव हतास्ते परिपन्थिनः ।
 ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय ॥ ३९ ॥

 हता इति । सन्त्विति शेषः । मे-मम सुमित्रायाश्च ज्ञातीन्-बन्धून् अभिनन्दय ॥ ३९ ॥

 [३]कल्याणे [४]बत नक्षत्रे मयि जातोऽसि पुत्रक ! ।
 येन त्वया दशरथो गुणैराराधितः पिता ॥ ४० ॥


  1. महार्ह-क.
  2. बाष्पाकुलं-ङ. च.
  3. कल्याणेऽदिति-ङ.
  4. बतेति सन्तोषे । ‘खेदानुकाम्यासन्तोषविस्मयाऽऽमन्त्रणे बत' इत्यमरः-गो.