पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
42
[अयोध्याकाण्डः
रामाभिषेकनिश्चयः

 राज्ञोद्दिष्टेऽभिषेचने तदपेक्षितराजोपादेष्टसभार्योपवासानुष्ठान-निवेदनाय तत्क्षणादेव मातुरन्तःपुरं ययौ ॥ २९ ॥

 तत्र तां [१].प्रवणामेव मातरं क्षौमवासिनीम् ।
 वाग्यतां देवतागारे ददर्शायावतीं श्रियम् ॥ ३० ॥

 प्रवणां-देवताप्रार्थनाञ्जलिवशात् प्रह्वाम् । ददर्शायाचतीमिति छन्दसि दीर्घः । रामाय श्रियं याचतीमिति यावत् ॥ ३० ॥

 [२]प्रागेव चागता तत्र सुमित्रा लक्ष्मण[३]स्तथा ।
 सीता चानायिता श्रुत्वा प्रियं रामाभिषेचनम् ॥ ३१ ॥

 सीता चानायितेति-स्वगमनानन्तरमिति शेषः ॥ ३१॥

 तस्मिन् कालेऽ[४]पि कौसल्या तस्थावामीलितेक्षणा ।
 सुमित्रयाऽन्वास्यमाना सीतया लक्ष्मणेन च ॥ ३२ ॥
 श्रुत्वा [५]पुष्येण पुत्रस्य यौवराज्याभिषेचनम् ।
 प्राणायामेन पुरुषं ध्यायमाना जनार्दनम् ॥ ३३ ॥

 तस्मिन् कालेऽपीति ।-रामस्य मातृसमीपगमनकालेऽपीत्यर्थः । आमीलितेक्षणा-ध्यानवशात् । पुष्येण-पुष्ये श्वोऽभिषेको मे भविता यथा-यथादिष्टं पितुश्शासनमेवमिति शेषः ॥ ३३ ॥

 तथा सनियमामेव सोऽभिगम्याभिवाद्य च ।
 उवाच वचनं रामो हर्षयंस्तामनिन्दिताम् ॥ ३४ ॥


  1. प्रवणां-स्वासाधारणदेवतासक्तचित्ताम् ।..... आयाचतीं-प्रार्थयन्तीं-गो
  2. सुमित्रा प्रियं रामाभिषेचनं श्रुत्वा आगता। लक्ष्मणश्च तदा सुमित्राऽऽगमनकाले आगतः । सीता तु परतन्त्रत्वात् स्वयं नागता, किन्तु दासीभिरानायिता- गो.
  3. स्तदा-ङ.
  4. तु, हि, च-ङ.
  5. पुष्ये च पुण्येन-ङ.