पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
41
श्रुत्वा च रामः पितरमभिवाद्याभ्ययाद्गृहम्

 यद्यपि भरते त्वदभिषेकवैमत्यमसम्भाव्यं, अथापि लोकस्थिति-स्त्वेवमित्याह-कामं खल्वित्यादि । ज्येष्ठस्याभिषेकसुखं न हन्तव्यमित्यनुक्रोशसहितः-घृणासहितः प्रायेण ; अथापि-किन्तु-लोकस्थितौ विशेषोऽस्ति । कथम्?-मनुष्याणां चित्तं तद्गतस्नेहादिकं अनित्यमेव ; सति विकारनिमित्ते विक्रियेतैवेत्यर्थः । उक्त एवार्थः प्रदर्श्यते-सतामित्यादि । सतामपि- [१]सत्कुलप्रसूतानामपि-धर्म-नित्यानामपि चित्तं कृतशोभि–येन येन निमित्तेन यद्यत्कृतं रागो द्वेषादिर्वा, तेन तेनैव शोभि सर्वथा, न तु स्वतो नियतकिञ्चित्स्वभावं । तथात्वे सुखदुःखोर्मिमालासंसारा कूपारावस्थानायोगात् । [२]कृतशोभीत्यत्र यद्वा भट्टो बहु जल्पति, तत्र न किञ्चिदपि संगतं पश्यामः ॥ २७ ॥

 इत्युक्तः सोऽभ्यनुज्ञातः श्रोभाविन्याभिषेचने ।
 व्रजेति रामः पितर[३]मभिवाद्याभ्ययाद्गृहम् ॥ २८ ॥

 अभिषेचनेऽभ्यनुज्ञातः; इदानीं व्रज' इति चाभ्यनुज्ञातः इत्यनुकर्षः ॥ २८ ॥

 प्रविश्य चात्मनो वेश्मरा[४]ज्ञोद्दिष्टेऽ[५]भिषेचने ।
 [६]तत्क्षणादेव निष्क्रम्य मातुरन्तःपुरं ययौ ॥ २९ ॥


  1. सत्कुले-ग.
  2. अत्र मातृकासु 'बहुशोमीत्यत्र' इत्येव पाठ उपलभ्यते । परन्तु अधस्तात् 'कृतशोभि' इत्येव व्याखात्वात् एवं निवेशितम् । 'यद्वा भट्टः' इति कस्यचिन्नाम परिहासनिबन्धनम् । यः स्वव्याख्यायां 'यद्वा–यद्वा-इति बहुकल्पान्वदति सः 'यद्वा भट्टः'-इत्युक्तः । प्रायोऽयं गोविन्दराज एव स्यात् । सप्तमसर्गप्रथमश्लोकीय-व्याख्याटिप्पण्योर्दर्शने इदं युक्तं प्रतिभाति ।
  3. मभिभाध्या-ङ.
  4. राज्ञादिष्टे-ङ.
  5. निमित्तसप्तमी राज्ञोद्दिष्टमभिषेकं कथयितुमित्यर्थः-गो.
  6. तत्क्षणेन-च.ङ.