पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
40
[अयोध्याकाण्डः
रामाभिषेकनिश्चयः

 [१]तस्मात्त्वयाऽद्य [२]प्रभृति निशेयं नियतात्मना ।
 सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना ॥ २३ ॥

 अद्यप्रभृतीति । प्रदोषकालमारभ्येति यावत् ॥ २३ ॥

 सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः ।
 भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि ॥ २४ ॥

 सुहृद्भिरपि रक्षणं किमर्थमपेक्ष्यमित्यत्र-भवन्तीत्यादि । बहुविघ्नानीति बहुव्रीहिः ॥ २४ ॥

 [३]विप्रोषितश्च भरतो यावदेव पुरादितः ।
 तावदेवाभिषेकस्ते प्राप्तकालो मतो मम ॥ २५ ॥

 इतः पुरादिति । अस्मात्पुरादित्यर्थः । तावदेवेति । पूर्वमेवेत्यर्थः ॥ २५ ॥

 [४]कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः ।
 ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः ॥ २६ ॥
 [५]किन्तु चित्तं मनुष्याणां अनित्यमिति मे[६] मतिः ।
 [७]सतां च धर्मनित्यानां कृतशोभि च राघव ! ॥ २७ ॥


  1. अद्यप्रभृति-एतदहरारभ्य निशा उपवस्तव्या । 'वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः' इति भोजननिवृत्यस्य वसेरकर्मकत्वादत्र सकर्मकत्वमार्षम्-गो.
  2. व्रतिना-ङ.
  3. केकय-राजाय राज्यशुल्कं दत्त्वा कैकेयीं विवाहितवान्; तं वृत्तान्तं हृदि कृत्वाह-विप्रोषित इति ।(अयं वृत्तान्तः अयो. १०७-३-श्लोके स्पष्टः) गो.
  4. कामं-यद्यपि । वृत्ते-शीले ।
  5. किन्नु-ङ.
  6. मनः-ङ.
  7. सामान्यप्रयुक्तदोषो विशेषे न संक्रमत इत्याह-सतां त्विति । तुशब्दः पक्ष-व्यावृत्त्यर्थः। धर्मनित्यानां-धर्मैकनिरतानां कृतशोभि-कृतेन परस्परोपकारेण शोभते ;न तु भेदं प्राप्नोति । अन्ये त्वेवं व्याचक्षते-'धर्मनित्यानां चित्तं कृतशोभि–कृतेन
    परकृतमित्रभेदादिना शोभितुं शीलमस्यास्तीति कृतशोभीति । अन्ये त्वाहुः-सतां चित्तं कृतेन कार्येण शोभते, न तु करिष्यमाणेन । कृतं कार्यमनुमोदते । न तु करिष्यमाणमिति भाव इति-गो.