पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/७८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
39
श्वस्त्वाऽहमभिषेक्ष्यामीत्यादिदेश नराधिपः

 तद्यावदेव मे [१]चेतो न [२]विमुञ्चति राघव ! ।
 तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः ॥ २० ॥

 नक्षत्रं-जन्मनक्षत्रं । दारुणैः सूर्यादिभिः । तैः अवष्टब्धं-युगपत्पूर्णभावतयाधिष्ठितम् । आवेदयन्ति-तत्फलं चावेदयन्ति-प्रायेण चेत्यादिना । मृत्युः-आपच्च क्रमादुक्तोल्कानक्षत्रफले । मे चेतः–न विमुञ्चतीति-अभिषेकचिन्तां न विमुञ्चति-न विमुखं भवतीति यावत्, तावत्-ततः पूर्वमेव अभिषिञ्चस्व-कृताभिषेकं स्वात्मानं कुरु । कुत एवमभिषेकवैमुख्यप्रसक्तिशङ्केत्यत्राह-चलेत्यादि । सम्भावितसपत्नीवैमात्रेयादिजोपजापस्य च सम्भावितत्वादित्याशयः । अयमेवाशयः प्रकाशयिष्यते-विप्रोषितश्चेत्यादिना ॥ २० ॥

 अद्य चन्द्रोऽभ्युपगतः पुष्पात्पूर्वं [३]पुनर्वसू ।
 [४]श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः ॥ २१ ॥

 पुष्ययोग श्वो नियतमिति-शुद्धगणितनिश्चितमित्यर्थः । वक्ष्यन्त इति । कालस्तङ् च छान्दसः-वदन्तीति यावत् ॥ २१ ॥

 [५]तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम् ।
 श्वस्त्वाऽहमभिषेक्ष्यामि यौवराज्ये परंतप ! ॥ २२ ॥

 तत्र पुष्य इति । राजाभिषेक परिगणित नक्षत्र इत्यर्थः । त्वा-त्वां इत्यर्थः ॥ २२ ॥


  1. चेतः-त्वामभिषेक्ष्यामीति बुद्धिः-गो.
  2. विमुह्यति-ङ.च.
  3. पुनर्वसुं-ङ.च.
  4. पुष्ययोगं-पुष्येण चन्द्रस्य योगं नियतं–अभिषेकनियतं, प्रशस्तभित्यर्थः-गो.
  5. ततः-ङ.