प्रदानोपकारकत्वेन तद्प्रत्युपकारेऽपि ऋणम् । विप्रैरेव जातकर्मादिसर्वसंस्कारसाधनेनाधनाशनात् तदप्रत्युपकारे च ऋणमस्य भवति । ऋष्यृणे विप्रर्णस्यान्तर्भावात् देवर्णे जीवर्णस्यान्तर्भावात् 'जायमानो वै ब्राह्मणः इत्याद्यया श्रुत्या 'ऋणानि त्रीण्यपाकृत्य' इत्यादिस्मृत्या [१]वर्णत्रयवादः । तत्र दत्तेन षोडशमहादानान्तदानेन विप्रर्णापाकरणम् । धर्माविरुद्धसुखभोगेन जीवर्णापाकरणञ्च जातमि[२]त्युक्तम्-दत्तमित्यनेन, अनुभूतानि इत्यादिना च। शेषः प्रसिद्धः ॥ १३-१४ ॥
न किञ्चिन्मम कर्तव्यं तवान्यत्राभिषेचनात् ।
अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि ॥ १५ ॥
यद्ब्रूयां तत्कर्तुमर्हसीति । विळम्बं मा कुर्विति यावत् ॥ १५ ॥
अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम् ।
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक ! ॥ १६ ॥
अपि चाद्याशुभान् राम ! स्वप्ने पश्यामि दारुणान् ।
सनिर्धाता [३]दिवोल्का च पततीह महास्वना ॥ १७ ॥
इतश्चेतश्च कर्तुमर्हसीत्याह-अद्येत्याद्यपिचादिभ्याम् । दिव उल्का दिवोल्का, सन्धिश्छान्दसः । निर्घातः-अशनिरमेधः ॥ १७ ॥
अवष्टब्धं च मे राम ! नक्षत्रं दारुणैर्ग्रहैः ।
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः ॥ १८ ॥
प्रायेण हि निमित्तानामीदृशानां समुद्भवे ।
राजा हि मृत्युमानोति घोरां वाऽपदमृच्छति ॥ १९ ॥