पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/७६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
37
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक !

 प्रणमन्तं समुत्थाप्य तं परिष्वज्य भूमिपः ।
 प्रदिश्य चास्मै रुचिरमासनं पुनरब्रवीत् ॥ ११ ॥
 राम ! वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा मयेप्सिताः ॥
 अन्नवद्भिः क्रतुशतैः तथेष्टं भूरिदक्षिणैः ॥ १२ ॥

 'विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् । श्रद्धाविरहितं यज्ञं तामसं परिचक्षते' इति गीयमानत्वादन्नवदादिविशेषणम् ॥

 जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि ।
 दत्तमिष्टमधीतं च मया पुरुषसत्तम ! ॥ १३ ॥
 अनुभूतानि चेष्टानि मया वीरसुखान्यपि ।
 [१]देवर्षिपितृविप्राणां अनृणोऽस्मि तथाऽऽत्मनः ॥ १४ ॥

 देवर्षिपितृविप्राणामात्मनश्चानृणोऽस्मीति । अत्र सेन्द्रियग्रामोजीव आत्मा । तस्य देहग्रहस्तत्तदुत्थसुखानुभवप्रयोजनः । 'अनिषिद्धसुखत्यागी पशुरेव न संशयः' इति न्यायेन तत्तदुचित सुखसंपादनं जीवात्मनामेव । यथा देवर्षिपितृणान्निजेन्द्रियवत् तदुपकारकत्वेन तदप्रत्युपकारे ऋणम्, एवं जीवस्य च साक्षात् स्वान्तःकरणज्योतिः-


  1. देवानामनृणः क्रतुशतैः, ऋषीणामनृणोऽध्ययनेन, पितॄणामनृणोऽपत्योत्पादनेन,विप्राणामनृणो दत्तेन, आत्मनोऽनृणः सुखानुभवेन । यद्यपि ब्रह्मचर्यादि ऋणत्रयं श्रुतिसिद्धम्-'जायमानो वै........ पितृभ्यः' इति; तथाऽपि ऋणपञ्चकमिति मतान्तरम् । यद्वा ऋणत्रयव्यपदेशः प्राधान्यात् इतरयोरुपलक्षणत्वाद्वा | ननु देवादीनां पञ्चानां कथमुत्तमर्णत्वम् ? अत्राहुः-देवानामिन्द्रियाधिष्ठातॄणां जितेन्द्रियताकारकत्वेनोपकारकत्वात्, ऋषीणां वागुपकारकत्वात् पितॄणां तनूपकारकत्वात्, विप्राणां कर्माधीन-सर्वसंस्कारसाधनेनाघनाशकत्वात् आत्मनः शारीरेन्द्रिय सङ्घातरूपस्य ज्ञानप्रकाशहेतुत्वेनोपकारकत्वाच्च तदप्रत्युपकारः पुरुषस्य ऋणमेव । अन्यत्र चोक्तं 'अनिषिद्धसुखत्यागी
    पशुरेव न संशयः' इति गो.