प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ ।
रामस्य भवनं शीघ्रं राममानयितुं पुनः ॥ ४ ॥
द्वास्थैरावेदितं तस्य रामायागमनं पुनः ।
श्रुत्वैव चापि रामस्तं प्राप्तं शंकान्वितोऽभवत् ॥ ५ ॥
तस्य पुनरागमनमिति । सुमन्त्रस्यागनमित्यर्थः । शङ्कान्वित इति । राज्ञ आपद्वा ? आहोस्विदभिषेकावेळम्बाय वेति ॥ ५ ॥
प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत् ।
यदागमनकृत्यं ते भूयस्तद्ब्रह्म शेषतः ॥ ६ ॥
तमुवाच ततस्स्तो राजा त्वां द्रष्टुमिच्छति ।
श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ॥ ७ ॥
त्वमेव प्रमाणं-निर्णायकः ; न हि किंकरः स्वामिनं क्वचिन्नियोक्तुर्माष्टे । यदेवमतो राजानं प्रति गमनाय वा इतराय वा-अगमनाय वा मतिं विधेहि स्वेच्छया । [१]इतरस्यासर्वनामता ॥ ७ ॥
इति सूतवचः श्रुत्वा रामोऽथ त्वरयाऽन्वितः ।
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ॥ ८ ॥
तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः ।
प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम् ॥ ९ ॥
प्रियमिति । [२]स्वयमिति शेषः ॥ ९ ॥
प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः ।
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः ॥ १० ॥
दूरात् प्रणिपातः किं वदिष्यतीति भीत्या ॥ १० ॥