पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/७४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४ सर्गः]
35
राम ! वृद्धोऽस्मि दीर्घायुर्विश्रान्तिमभिरोचये

 लाभमिवेति । स्वस्वपुत्राभ्युदयमिवेति यावत् । अत एव देवान् समानर्चुरिति । स्वाभीष्टाविघ्नायेति शेषः । अमा (५०) मानः सर्गः ॥ ५० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे तृतीयः सर्गः


चतुर्थः सर्गः
[रामाभिषेकनिश्चयः]

 [१]गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः ।
 मन्त्रयित्वा ततश्चक्रे निश्चयज्ञस्स निश्चयम् ॥ १ ॥
 श्व एव पुष्यो भविता [२]श्वोऽभिषिच्येत मे सुतः ।
 रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ॥ २ ॥

 एवं निश्चिताभिषेक उपदिष्टोपदेष्टव्योऽपि वृद्धत्वाद्विस्मृताभिषेकाङ्गपुत्रकर्तव्योपदेशः तदुपदेशाय पुनराहूयोपदिशति-गतेष्वित्यादि । निश्चयश्च कः? कीदृशः ? इत्यतः-अभिषिच्येतेति । कर्मणि विधिलिङ् । निश्चयमिति पूर्वेण सम्बन्धः ॥ २ ॥

 अथान्तर्गृहमाविश्य राजा दशरथस्तदा ।
 सूतमामन्त्रयामास रामं [३]पुनरिहानय ॥ ३ ॥

 अन्तर्गृहमाविश्येति। मन्त्रिणामपि विसर्जनानन्तरमिति शेषः ॥


  1. सामान्यतः पुष्ययुक्तदिने रामोऽभिषेच्य इति पूर्वं निर्णीतवान् राजा । अनन्तरं विमर्शे च श्व एव पुष्ययुक्तदिवस इति ज्ञात्वा श्व एव राममभिषिषिक्षुः पुना राममाहूयादिशत्यस्मिन् सर्गे । अत एव 'तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि इति
    तत्र, 'श्व एव पुष्यो भविता' इति अत्र चोच्यते ।
  2. श्वोऽभिषेच्यस्तु-ङ.
  3. आनयेत्यनन्तरं इति करणमूह्यम् ।