पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/७३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
34
[अयोध्याकाण्डः
दशरथेन रामानुशासनम्

 तस्य नन्दन्ति मित्राणि लब्ध्वाऽमृतमिवामराः ।
 तस्मात्त्वमपि चात्मानं नियम्यैवं समाचर ॥ ४६ ॥

 कोष्ठागाराणि-अयुतनियुतादिसङ्ख्यधान्यराशिग्राहीणि कोष्ठरूपतया निर्मितान्यगाराणि । तथा आयुधागाराणि-समग्रनिजबलापेक्षिताष्टादशविधायुधप्रतिष्ठागाराणि च तथा । तैस्सह सन्निचयाः निचीयन्ते अस्मिन्निति निचयाः-नवरत्नहेमरजतवस्त्राभरणादिसंपूर्णाः तत्तत्कोशाः तथा । सन्निचया इत्यत्र समित्यव्ययं पूर्तिवाचि द्रष्टव्यम् । तन्त्रेण समितिशोभनवाचि च पूर्वपदम् । तुष्टानुरक्तप्रकृतिः-उक्तनि-चयबलादिति शेषः । तस्य मित्राणीति । सामन्तराजान इति यावत् ॥ ४६ ॥

 तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः ।
 त्वरिताः शीघ्रमभ्येत्य कौसल्यायै न्यवेदयन् ॥ ४७ ॥

 तदिति । अभिषेकप्रयोजनं पित्रुपदेशमित्यर्थः ॥ ४७ ॥

 सा हिरण्यं च गाश्चैव रत्नानि विविधानि च ।
 व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा ॥ ४८ ॥

 प्रियमाख्यान्तीति प्रियाख्याः-'आतोऽनुपसर्गे कः' इति कः ॥

 अथाभिवाद्य राजानं रथमारुह्य राघवः ।
 ययौ स्वं द्युतिमद्वेश्म जनौधैः प्रतिपूजितः ॥ ४९ ॥
 ते चापि पौरा नृपतेर्वचस्तु तत्
  श्रुत्वा तदा लाभमिवेष्टमाशु ।
 नरेन्द्रमामन्त्र्य गृहाणि गत्वा
  देवान् समानर्चुरभिप्रहृष्टाः ॥ ५० ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे तृतीयः सर्गः