पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/७२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
33
आदिशद्यौवराज्याय रामं दशरथः प्रियम्

 कामतस्त्वं प्रकृत्यैव [१]विनीतो गुणवानसि ।
 गुणवत्यपि तु स्नेहात् पुत्र ! वक्ष्यामि ते हितम् ॥ ४२ ॥

 कामतः-प्रकामं, अत्यर्थमिति यावत् । गुणवति सत्यपि स्नेहात्-स्नेहादेव ॥ ४२ ॥

 भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः ।
 [२]कामक्रोध[३]समुत्थानि त्यजेथा व्यसनानि च ॥ ४३ ॥

 भूय इति । विनीत एव सन् पुनश्चाभ्यधिकं विनयमास्थाय व्यसनानि त्यजेथा इति । 'स्त्रीद्यूतमृगयामद्यवाक्पारुष्योग्रदण्डताः । अर्थस्य दूषणं चेति राज्ञां व्यसनपञ्चकं' इत्युक्तानि व्यसनानि । तत्रार्थसंदूषणं नाम पित्रादिसञ्चितार्थस्य उक्तव्यसनतो नाशनम् ॥ ४३ ॥

 परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया यथा ।
 अमात्यप्रभृतीः सर्वाः प्रकृतीथानुरञ्जय ॥ ४४ ॥

 परोक्षया-चारमुखतः परोक्षानुभवसिद्धया वृत्त्या-स्वपरराष्ट्रवृत्तान्तविचारेण सह वर्तमानो भव । प्रत्यक्षया-नित्यं यथाकालमास्थानीमास्थाय स्वानुभवसिद्धयथोक्तवृत्तान्तविचारेण सह वर्तमानो भव । अमात्यप्रभृतीः सर्वाः प्रकृतीरिति । अमात्यसेनानीपुरादिरक्षिपौरजानपदसर्वप्रजा इत्यर्थः ॥ ४४ ॥

 कोष्ठागारायुधागारैः कृत्वा सन्निचयान् बहून् ।
 [४]तुष्टानुरक्तप्रकृतिः यः पालयति मेदिनीम् ॥ ४५ ॥


  1. निर्णतः-ङ.
  2. यद्वा 'मृगयाऽक्षो दिवास्वापः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाध्वा च कामजो दशको गुणः ॥ 'इत्येतानि कामजानि, पैशुन्यं साहसं द्रोह ईर्ष्यसूयार्थदूषणम् । वाग्दण्डयोश्च पारुष्यं क्रोधजोऽपि गुणोऽष्टकः' इत्युक्तानि क्रोधजानि च व्यसनानि गो.
  3. समृद्धानि-ङ.
  4. इष्टानु-ङ.