पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/७१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
32
[अयोध्याकाण्डः
दशरथेन रामानुशासनम्

 तेन विभ्राजता तत्र सा सभाऽभिव्यरोचत ।
 विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना ॥ ३७ ॥

 द्यौ-आकाशः ॥ ३७ ॥

 तं पश्यमानो नृपतिः तुतोष प्रियमात्मजम्
 अलङ्कृतमिवात्मानं आदर्शतलसंस्थितम् ॥ ३८ ॥

 आदर्शतलसंस्थितं आत्मानमिव पश्यमान इत्यनेन रामस्य मुखनासाकरचरणादिसर्वावयवेन च पितृसमरूपत्वमावेदितम् ॥ ३८ ॥

 स तं [१][२]सस्मितमाभाष्य पुत्रं पुत्रवतां वरः ।
 उवाचेदं वचो राजा देवेन्द्रमिवं [३]कश्यपः ॥ ३९ ॥
 ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः ।
 उत्पन्नस्त्वं गुणश्रेष्ठो मम [४]रामात्मजः प्रियः ॥ ४० ॥

 तदेव दर्शितम्-सदृशः सुत इति । गुणैः श्रेष्ठो यतः अतो मम प्रियः आत्मजोऽसि ॥ ४० ॥

 यतस्त्वया प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः ।
 तस्मात्त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि ॥ ४१ ॥

 अपि च-यतस्त्वयेत्यादि । पुष्ययोगेनेति, 'प्रकृत्यादिभ्य उपसङ्ख्यानम्' इति तृतीया, पुष्येण चन्द्रमसो योगः पुष्ययोगः, तदुपलक्षितकाल इत्यर्थः ॥ ४१ ॥


  1. सुस्थित-ङ.
  2. सस्मितमिति क्रियाविशेषणम्-गो.
  3. काश्यपः-ङ. झ.
  4. आत्मजः-औरसः सुतः-गो.