पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/७०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
31
आगत्य च तदा रामो ववन्दे चरणौ पितुः

 स तं कैलासशृङ्गाभं प्रासादं नरपुङ्गवः ।
 आरुरोह नृपं द्रष्टुं सह सूतेन राघवः ॥ ३२ ॥
 [१]साञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके ।
 नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः ॥ ३३ ॥

 साञ्जलिरेव अभिप्रेत्य प्रणतः-कृतसाष्टांगनमस्कारः पश्चात् 'उरस्समं राजन्यः' इत्याद्युपदिश्यमानविशेषवन्दनं चाकरोदित्यर्थः । स्वं नाम श्रावयन्निति । रामवर्मानामाहमस्मीत्येवमात्मना स्वं नाम श्रावयन्निति यावत् ॥ ३३ ॥

 तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः ।
 [२].गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम् ॥ ३४ ॥

 अञ्जलौ गृह्येति । तत्प्रदेशे गृहीत्वेति यावत् ॥ ३४ ॥

 तस्मै चाभ्युदितं [३]सम्यङ्मणिकाञ्चनभूषितम् ।
 दिदेश राजा रुचिरं रामाय परमासनम् ॥ ३५ ॥

 [४]अभ्युदितं-उपस्थापितं । परमं-श्रेष्ठम् ॥ ३५ ॥

 तदासनवरं प्राप्य व्यदीपयत राघवः ।
 स्वयैव प्रभया मेरुमुदये विमलो रविः ॥ ३६ ॥

 प्राप्य तद्व्यदीपयत-द्योतयति स्मेति योजनार्थः । उदय इति । तत्स्थत्वेन प्रतिभासमान इति शेषः ॥ ३६ ॥


  1. प्राञ्जलि-ङ.
  2. 'सक्थिनि कर्णे वा गृहीत्वा' इति महाभाष्यकारवचनात् अञ्जलाविति कर्मणि सप्तमी-गो. च
  3. दिव्यं मणि-ङ.
  4. अभ्युदितं-उन्नतं-गो.