पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
61
देवि ! राजा दशरथो रामं राज्येऽभिषेक्ष्यति

 सास्म्यगाधे भये मग्ना [१]दुःखशोकसमन्विता ।
 दह्यमानाऽनलेनेव त्वद्धितार्थमिहागता ॥ २१ ॥

 अक्षयं-क्षयः-[२]प्रतीकारः । अशक्यप्रतीकारमिति यावत् । विनाशनं-त्वत्सौभाग्यविनाशकारणं प्रवृत्तमिति । किं तत् इत्यत्राह राममित्यादि । अभिषेक्ष्यति-अतस्तन्निमित्ते भय इति योजना ॥

 तव दुःखेन कैकेयि ! मम दुःखं महद्भवेत् ।
 त्वद्वृद्धौ मम वृद्धिश्च भवेदत्र न संशयः ॥ २२ ॥

 ननु दास्यास्तव कुतो भयमित्यत्राह-तवेत्यादि ॥ २२ ॥

 नराधिपकुले जाता महिषी त्वं महीपतेः ।
 उग्रत्वं राजधर्माणां कथं देवि ! न बुध्यसे ॥ २३ ॥

 अस्तु ! किमिदानीमत्याहितमित्यत्राह-नराधिपेत्यादि । उच्यमानविशेषणद्वयं [३]स्वप्राभवाप्रच्युतये यत्नस्त्वया संपाद्य इति स्फोरणाय । ननु राज्ञः शेषस्त्र्युपेक्षया मद्भोगैकसक्तत्वात्- मद्ग्रहैकानिलयत्वा अस्मत्प्राभवस्य अस्मन्नित्यानुरक्तराजप्रसादमूलस्य कुतः प्रच्युतिशङ्केत्यत आह-उग्रत्वामित्यादि । राज्ञः-[४]दशरथस्य धर्माः तथा ॥ २३ ॥

 धर्मवादी [५]शठो भर्ता श्लक्ष्णवादी च दारुणः ।
 शुद्धभावेन जानीषे तेनैव[६]मतिसंन्धिता ॥ २४ ॥


  1. अनभिमतरामाभिषेकश्रवणजनितव्यसनजं दुःखम् अभिमतभरताभिषेकराहित्यजः शोकः-गो. यद्वा एतादृशेऽपि समये कैकेय्या औदासीन्यात् शोकः ।
  2. नाशः-ग. घ.
  3. स्वप्रभावा-ग. घ.
  4. सामान्यतो राजनीतयो वा विवक्षिताः । राजवंशे जनित्वा राजमहिषी सत्यपि राजनीतेः क्रौर्य कथं न बुध्यसे ? इत्यर्थः।
  5. 'गूढविप्रियकृत् शठः' । अतिसन्धिता-वञ्चिता
  6. मतिवञ्चिता-ङ.