पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
62
[अयोध्याकाण्डः
मन्थरोपजापः

 तदुग्रत्वमेव प्रदर्शयति-धर्मवादीत्यादि । धर्मवादी श्लक्षणवादी च केवलं वाचा; अन्तस्तु शठः दारुण एव । शठः-पापानुष्ठाता । आन्तरकौर्यगोपनाय श्लक्ष्णवादी-सस्मितमृदुमधुरभाषी । एतादृशमपि तं; शुद्धभावेन-तथोपलक्षितत्वेन जानीषे । सर्वथा तेन एवं-प्रागुक्तरीत्या अतिसन्धिता-अतिसन्धिर्वञ्चना, तां प्राप्ता ; तारकादित्वादितच् ॥ २४ ॥

 [१][२]उपस्थितं प्रयुञ्जानस्त्वयि सान्त्वमनर्थकम् ।
 अर्थेनैवाद्य ते भर्ता कौसल्यां योजयिष्यति ॥ २५ ॥

 उपस्थितं-कौसल्याया अर्थप्रापणशेषतया [३]कर्तव्यप्राप्तकालं । त्वयि सान्त्वं-अनुसरणं अनर्थकं-त्वत्प्रयोजनानुपयुक्तं प्रयुञ्जानो भवति । कौसल्यां-अनिष्टत्वेन प्रकाश्यमानां अर्थेनाद्य योजयिष्यतीति ॥ २५ ॥

 [४]अपवाह्य स दुष्टात्मा भरतं तव बन्धुषु ।
 [५][६]काल्ये स्थापयिता रामं राज्ये निहतकण्टके ॥ २६ ॥

 त्वत्सान्त्ववत् अन्यदप्युपायान्तरं कौसल्याया अर्थप्रापणायानुष्ठितमित्याह-अपवाह्येति । उद्वास्येत्यर्थः । कालमर्हति काल्यं, तदर्हमिति यत्-उक्तरीत्या अविघ्नतो यथाप्राप्तराज्याभिषेक-कालम् ॥ २६ ॥


  1. उपस्थितः-ङ.च.
  2. तत्कालोचितभाषितं-गो. उपस्थितः-हृदयेन कोसल्यायां अनुरक्तः, त्वत्समीपे स्थितः-ति. अनर्थकं उपस्थितं सान्त्वं प्रयुञ्जान एव कौसल्यामर्थेन योजयिष्यतीत्यन्वयः ।
  3. कर्तव्यं-घ.
  4. अतिसन्धानप्रकारमाह-अपवाह्यति-गो.
  5. काल्यं, कौल्ये-ङ.
  6. काल्ये-उषसि । प्रत्यूषोऽहर्मुखंकाल्यमुषः' इति कोशः !