पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
63
संप्राप्तकालं कैकेयि ! क्षिप्रं कुरु हितं तव

 शत्रुः पतिप्रवादेन मात्रेव हितकाम्यया ।
 आशीविष [१]इवाङ्केन बाले ! [२][३]परिहृतस्त्वया ॥ २७ ॥

 शत्रुरित्यादि । पतिप्रवादेन-पतिव्याजेन छन्नः शत्रुः त्वया मात्रेव हितकाम्यया-हितप्रापणेच्छया अङ्केनोपलालितः । न त्वाशीविष इव परिहृतः ॥ २७ ॥

 यथा हि कुर्यात् सर्पो वा शत्रुर्वा प्रत्युपेक्षितः ।
 राज्ञा दशरथेनाद्य सपुत्रा त्वं तथा कृता ॥ २८ ॥

 अज्ञानादपरिहारमूलोऽनर्थश्च संप्रवृत्त इदानीमित्याह-यथेत्यादि । प्रत्युपेक्षितः–उपेक्षितपरिहारः यथाकरोति, तथा कृतेति योजना ॥

 पापेना[४]नृतसान्त्वेन बाले ! नित्यसुखोचिते !
 रामं स्थापयता राज्ये सानुबन्धा हता ह्यसि ॥ २९ ॥

 कथं कृतेत्यतः-पापेनेत्यादि । अनुबन्धः-पुत्रादिपरिकरः ॥

 [५]संप्राप्तकालं कैकेयि ! क्षिप्रं कुरु हितं तव ।
 त्रायस्व पुत्रमात्मानं मां च विस्मयदर्शने ॥ ३० ॥

 [६]संप्राप्तकालं-संप्राप्तानुष्ठानकालम् । विस्मयकरं दर्शनं यस्याः सा तथा । अवश्यकर्तव्याकरणेनोपेक्षणात् तत्स्वभावदर्शनस्य विस्मयकरत्वं । [७]'विस्मयकररूपानुभावे' इत्यर्थस्तु प्रकृतानुपयोगादुपेक्ष्यः ॥


  1. इवाङ्गेन-ङ.
  2. परिधूत-च.
  3. परिहृतः-परिधृतः । यद्वा अङ्के-अङ्कात् न परिहृतः, किन्तु धृतः-गो.
  4. पूर्वे 'उपस्थितं प्रयुञ्जानः-'इत्युक्तोऽर्थः अनेन सङ्गृहीतः ।
  5. सा प्राप्तकालं सा प्राप्तकाला-ङ.
  6. इदं हितविशेषणम् ।
  7. गोविन्दराजीये एवमुक्तम् । तेन स्वेष्टसाधनसंपत्तिरुक्तेति भावः ।