पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
64
[अयोध्याकाण्डः
मन्थरोपजापः

 मन्थराया वचः श्रुत्वा शयनात् सा शुभानना ।
 उत्तस्थौ हर्षसंपूर्णा चन्द्रलेखेव शारदी ॥ ३१ ॥

 एवं दैवहतयां मन्थरया तदनर्थत्वेन प्रकाशिते सति महार्थे कैकेयी महाकुलप्रसूता महाराजमहीषीत्वतः निसर्गकल्याणगुणतः सर्वथार्थभूतं रामाभिषकं महार्थमेव मन्यते स्मेति प्रतिपाद्यते-मन्थराया इत्यादि ।

 अतीव सा तु संहृष्टा कैकेयी विस्मयान्विता ।
 [१]एकमाभरणं तस्यै कुभ्जायै प्रददौ शुभम् ॥ ३२ ॥

 विस्मयान्वितेति। अत्यद्भुताभ्युदयो मयाऽद्य श्रुत इति । एकमाभरणं ददाविति। कौसल्यावदेव पुत्राभ्युदयवादित्वादेव तस्याः किमप्याभरणं ददावित्यर्थः ॥ ३२ ॥

 दत्त्वा त्वाभरणं तस्यै कुब्जायै प्रमदोत्तमा ।
 कैकेयी मन्थरां दृष्ट्वा पुनरेवाब्रवीदिदम् ॥ ३३ ॥
 इदं तु मन्थरे ! मह्यं [२]आख्यासि परमं प्रियम् ।
 एतन्मे प्रियमाख्यातं भूयः किं वा करोमि ते ॥ ३४ ॥

 हे मन्थरे ! यदिदमाख्यासि एतत् मे परमं प्रियमेव हि । यदेतन्मे प्रियमाख्यातं अत्र ते भूयो-अभ्यधिकं किं वा प्रीतिदानं करवाणि ॥ ३४ ॥

 रामे वा भरते वाऽहं विशेषं नोपलक्षये ।
 तस्मात्तुष्टाऽस्मि यद्राजा रामं राज्येऽभिषेक्ष्यति ॥ ३५ ॥

 ननु कथं ज्ञातिश्रयः श्रुतिः प्रियं इत्यत्राह-राम इत्यादि । विशेषमिति । पुत्रत्वप्रयुक्तस्त्रेहे विशेषमित्यर्थः ॥ ३५ ॥


  1. दिव्यमा-ङ.
  2. आख्यानं-ङ.