पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
65
रामाभिषेकं श्रुत्वाऽभूत् कैकेयी भृशहर्षिता

 न मे परं किञ्चि[१]दितो वरं पुनः
  प्रियं प्रियार्हे ! सुवचं वचोऽमृतम् ।
 तथा ह्यवोचस्त्वमतः प्रियोत्तरं
  वरं परं ते प्रददामि तं वृणु ॥ ३६ ॥

इत्यर्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे सप्तमः सर्गः



 न म इत्यादि । हे प्रियार्हे-प्रियदानार्हे ! त्वया पुनः मे यत् प्रियं वरं वच उक्तं, इतः परं अभ्यधिकं किञ्चित्प्रियं त्वया न सुवचम् । हि-यस्मात् तथा तादृशं [२]प्रियोत्तरं वचोऽवोचः त्वं, अतोऽस्मादेव कारणात् परं वरं ते प्रददामि तं वृणु । मार्ग (३५) मानः (?) सर्गः ॥ ३६ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अयोध्याकाण्डे सप्तमः सर्गः


अष्टमः सर्गः
[मन्थरोपदेशः]

 मन्थरा [३]त्वभ्यसूयैनामुत्सृज्याभरणं हि तत् ।
 उवाचेदं ततो वाक्यं कोपदुःखसमन्विता ॥ १ ॥

 अथ-'किन्तु चित्तं मनुष्याणां' इतिन्यायेन (अयो. ४-२७) द्विस्त्रिर्लोकमर्यादावलम्बनेन मन्थरया हितवत् बोधनात् भद्रबुद्धेरपि


  1. दितस्त्वया-ङ.
  2. प्रियोत्तरं-प्रीतिविषयेषु श्रेष्ठम्, 'उपयुदीच्यश्रेष्ठेष्वप्युत्तरः'-गो.
  3. त्वभ्यसूय्यैनां-ङ. च.