पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
66
[अयोध्याकाण्डः
मन्थरोपदेशः

कैकेय्याश्चित्तं चलितमित्युच्यते । मन्थरेत्यादि । अभ्यसूय-कण्ड्वादे-रसूयतेर्ल्यप्, यगभाव आर्षः, असूयां कृत्वेत्यर्थः । एनां प्रतीति शेषः । आङः 'सुपांसुलुक्' इत्यादिना पूर्वसवर्णाश्रयणे सति अभ्यसूयेति पाङ्कोऽर्थः। कोपदुःखेति । हितं न शृणोतीति कोपः, अहितमस्या जायत इति दुःखम् ॥ १ ॥

 हर्षं [१]किमिदमस्थाने कृतवत्यसि बालिशे !
 शोकसागर[२]मध्यस्थं नात्मानमवबुध्यसे ॥ २ ॥

 अस्थाने-अनुचितकाले । बालिशे-अज्ञे ॥ २ ॥

 मनसा [३]प्रहसामि त्वां देवि ! दुःखार्दिता सती ।
 यच्छोचितव्ये हृष्टाऽसि प्राप्य त्वं व्यसनं महत् ॥ ३ ॥

 शोचितव्ये हृष्टाऽसीति यत् अतो मनसा त्वां प्रहसामि, उन्मत्तदर्शनेनेव स्वदशापरिहासास्पदभूतासीत्यर्थः ॥ ३ ॥

 शोचामि दुर्मतित्वं ते का हि प्राज्ञा प्रहर्षयेत् ।
 अरेः सपत्नीपुत्रस्य [४]वृद्धिं मृत्योरिवागताम् ॥ ४ ॥

 तदेवाह-शोचामीत्यादि । ते दुर्मतित्वं शोचामि । का हि प्राज्ञा-बुद्धिमती मृत्योर्वृद्धिमिवागतां अरेः सपत्नीपुत्रस्य वृद्धिं प्रहर्षयेत्-उपलालयेत् ॥ ४ ॥

 भरतादेव रामस्य [५]राज्यसाधारणाद्भयम् ।
 तद्विचिन्त्य विषण्णाऽस्मि भयं भीताद्धि जायते ॥ ५ ॥


  1. किमिदमिति प्रत्येकं वाक्यम्.
  2. मध्यस्था-ङ.
  3. प्रसहामि-ङ.च.
  4. वृद्धिं-दृष्ट्वेति शेषः। प्रहर्षयेत्-प्रहृष्येत्-ति.प्रहर्षयेत्-प्रहर्षसाधनं कुर्यात् । लालयेदिति वा-गो.
  5. राज्यं साधारणं यस्य; तस्माद्भरतादिति-गो.