पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८ सर्गः]
67
तां पुनर्भेदयामास मन्थरा बहुवा तदा

 अथ महद्व्यसनामिति यदुक्तं तद्दर्शयति-भरतादित्यादिना । रामस्य भरताद्भयमस्ति । भीताद्रामाद्भरतस्य च महद्भयमावश्यकम् । यथा सर्पपुरुषव्याघ्रपुरुषादेः । ननु रामस्य भरतात् तस्मादस्य च भयं किंनिमित्तमित्यत्रोक्तम्-राज्यसाधारणादिति । राज्यरूपं यत् साधारणभोग्यं तस्मादेव हेतोरित्यर्थः । आशाया आनन्त्यात्, ममैवास्तु राज्यं, ममैवास्तु राज्यं' इति परस्परजिगीषा भवति । ततोऽन्योन्यस्य भयं भवतीत्यर्थः ॥ ५ ॥

 लक्ष्मणो हि महेष्वासो रामं सर्वात्मना [१]गतः ।
 शत्रुघ्नश्चापि भरतं काकुत्स्थं लक्ष्मणो यथा ॥ ६ ॥

 ननु भरतादेवेति कथमवधारणमित्यत्राह-लक्ष्मणो हीत्यादि । रामं सर्वात्मना गत इति । मनोवाक्कायिकसर्वव्यापारै रामेणैक्यं गतः । अतो भेदाभावादेव न तयोरन्योन्य[२]भीप्रसङ्ग इत्यर्थः । तर्हि शत्रुघ्नाद्वा कुतो न भीतिरित्यत्र रामलक्ष्मणवत् शत्रुघ्नभस्तयोरैक्यात् शत्रुघ्नस्य भरतशेषत्वाच्च न तत्प्रयुक्तप्रातिखिकमीप्रसङ्ग इत्याशयेनाह-शत्रुघ्नश्चापीति ॥ ६ ॥

 प्रत्यासन्नक्रमेणापि भरतस्यैव भामिनि !
 राज्यक्रमो विप्रकृष्टस्तयोस्तावद्यवीयसोः ॥ ७ ॥

 भरतादेवेत्यत्र हेत्वन्तरमाह-प्रत्यासन्नेति । प्रत्यासन्नः- समीपभूतो यः क्रमः-उत्पत्तिक्रमः तेनापि हेतुना भरतस्यैव रामात्प्रत्यासन्नं राज्यम् । तयोस्तु विप्रकृष्टो राज्यागमः । कुत इत्यतः-यवीयसोरिति । कनिष्ठत्वादेव तयो राज्यागमो विप्रकृष्ट इत्यर्थः । भरतो लक्ष्मणाज्जयायानिति-पुनर्वस्वादिचतुर्नक्षत्रेषु रामभरतलक्ष्मणशत्रुघ्नानां क्रमाज्जननस्य बालकाण्ड एवोक्तत्वाद्यथोक्तज्यैष्ठ्यकानिष्ट्यनिश्चयः ॥ ७ ॥


  1. श्रितः-ङ.
  2. भीति-घ.