पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
68
[अयोध्याकाण्डः
मन्थरोपदेशः

 विदुषः क्षत्रचारित्रे प्राज्ञस्य प्राप्तकारिणः ।
 भयात् प्रवेपे [१]रामस्य चिन्तयन्ती तवात्मजम् ॥ ८ ॥

 उक्तं रामभयमुपसंहारेणाह-विदुष इत्यादि । सर्वशास्त्रवैदुष्यवतः, विशिष्य क्षत्रचारित्रे-मूलादिषड्विधबलसंपादनसन्धिविग्रहादिषट्कर्मप्रयोगरूपे प्राज्ञस्य-यथाकालं प्रयोगसमर्थस्य, उत्साहादिशक्ति-त्रयसमर्थत्वात् प्राप्तकारिणः-षट्कर्मणो द्रागेव करणशीलस्य रामस्य त्वदात्मजं प्रति भाव्यनर्थं चिन्तयन्ती तन्निमित्ताद्भयात् प्रवेपे ॥ ८

 [२]सुभगा किल कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।
 यौवराज्येन महता श्वः पुष्येण द्विजोत्तमैः ॥ ९ ॥

 एवं पुत्रानर्थं प्रदर्श्य तस्या अप्यनर्थं प्रदर्शियितुं कौसल्यावृद्धि-माह-सुभगेत्यादिभिः ॥ ९ ॥

 प्राप्तां [३]वसुमतीं प्रीतिं प्रतीतां हतविद्विषाम् ।
 उपस्थास्यसि कौसल्यां दासीव त्वं कृताञ्जलिः ॥ १० ॥

 रामाद्भरतस्येव कौसल्यातः कैकेय्या अनर्थं दर्शयति-प्राप्तामिति । वसुमतीं, वसुमतीप्राप्तिनिमित्तप्रीतिं च प्राप्तां । हताः विद्विषः-युष्मदादिसपत्नीरूपाः यया सा तथा । उपस्थास्यसि-गत्वा सेविष्यस इत्यर्थः ॥ १० ॥

 [४]एवञ्चेत् त्वं सहास्माभिस्तस्याः प्रेष्या भविष्यसि ।
 पुत्रश्च तव रामस्य [५]प्रेष्यत्वं हि गमिष्यति ॥ ११ ॥


  1. रामस्य भयात् षष्ठी चात्र सम्बन्धसामान्ये-गो.
  2. कैकेय्या असूयोत्पादनाय कौसल्यासौभाग्यं दर्शयति-सुभगेत्यादिना-गो.
  3. सुमहतीं-ङ.
  4. एवञ्च-ङ.
  5. प्रेष्यभावं