विष्ण्वादि[१]देवतालये गणपत्यालये च क्रमादन्नभक्षैर्दक्षिणोपेततया ब्राह्मणतर्पणं कर्तव्यमित्युक्तं भवति । माल्यप्रदानयोग्याः- माल्ययोग्याः, कर्मणि घञ्, अर्चनायोगसाधनगन्धाक्षताधूपादिसाधनानीत्यर्थः । पृथक्पृथागति । देवतायतनचैत्ययोरित्यर्थः ॥ १९ ॥
दीर्घाः असयः पट्टसरूपा येषां ते तथा । बद्धं गोधा चर्म यैस्ते तथा । अयं धर्मो धन्विनां ततो द्वंद्वः । अनेन शस्त्रास्त्रद्विप्रकारायुधवन्तो लक्ष्यन्ते । मृष्टवाससः इत्यनेनाभरणाद्यलंकारांतरमपि कल्याणीयमुपलक्षणीयम् । योधा इति विशेष्यम् । महान् उदयः -उद्भवो यस्मिन् तथा[४] ॥ २० ॥
एवं व्यादिश्य तौ विप्रौ क्रियास्तत्र सुनिष्ठितौ ।
चक्रतुश्चैव यच्छेषं [५]पार्थिवाय निवेद्य च ॥ २१ ॥
कृतमित्येव चाब्रूतां अभिगम्य जगत्पतिम् ।
यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजर्षभौ ॥ २२ ॥
विप्रौ-वसिष्ठवामदेवौ। क्रिया इति । पुरोहितकर्तव्या इति शेषः । तत्र-नृपवेश्मनि । यच्छेषमिति । दास्यादिपरिचारकान्तर-कर्तव्यक्रियाजातमित्यर्थः । तत् पार्थिवाय -पृथिव्या- लेपनादिप्रयोजनाय निवेद्य अथ जगत्पतिं-राजानं अभिगम्य यथोक्तवचनं-उक्तवचन-मनतिक्रम्य सर्वं कृतमेवेति प्रीत्यादियुक्तौ सन्तौ अब्रूताम् । तत्र