पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३ सर्गः]
27
वसिष्ठः परमप्रीतः सर्वं सज्जं तदाऽकरोत्

 शतसाहस्रं यदिति। अनेकं प्रति यत् प्रागुक्तं प्रशस्तमन्नं प्रकामं-यथेष्टं अलं–पर्याप्तं भवेत् तथा तत् संपाद्य द्विजमुख्यानां 'चतुर्थ्यर्थे बहुलं छन्दसि' इति षष्ठी, द्विजमुख्येभ्यः श्वः प्रभाते सत्कृत्य दीयतां । लाजा इत्यनेन लाजपरिकल्पितलड्डुकोच्यते ॥ १६ ॥

 सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम् ।
 [१]ब्राह्मणाश्च निमंत्र्यन्तां कल्प्यन्तामासनानि च ।
 आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम् ॥ १७ ॥

 आमन्त्रयन्तामिति । आमन्त्र्यन्तामिति यावत् ॥ १७ ॥

 सर्वे च [२]तालापचरा गणिकाश्च स्वलंकृताः ।
 कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः ॥ १८ ॥

 ताळैरपचरन्तीति ताळापचराः, चरिर्भक्षणार्थः, जीवन्तीति ताळापचरा नर्तकाः । कक्ष्यां द्वितीयामिति । अन्तःकक्ष्यायामभिषेकव्यापारप्रवृत्तेस्तत्र च ब्राह्मणैकवास्तव्यत्वादित्याशयः ॥ १९ ॥

 [३]देवायतनचैत्येषु सानभक्षाः सदक्षिणाः ।
 उपस्थापयितव्याः स्युः माल्ययोग्याः पृथक्पृथक् ॥ १९ ॥

 चैत्यं-चतुष्पथं, तत्र गणपतिपूजा । अन्नैर्भक्षैश्च सहिताः सान्नभक्षाः, भक्ष्यन्त इति भक्षाः, कर्मणि घञ्। सदक्षिणाः इत्यनेन


  1. अत्र व्याख्यादृष्ट्या अमन्त्रयन्तां विप्राश्च' इति पाठः स्यादिति भाति ।
  2. तालावचरा-ङ
  3. देवायतनचैत्येषु-देवगृहेषु चतुष्पथेषु चेत्यर्थः ।
    अन्नभक्षैस्सहवर्तन्त इति सान्नभक्षाः, अन्नमोदकहस्ता इति यावत् । माल्यप्रदानयोग्याः माल्ययोग्याः, मध्यमपद-लोपिसमासः माल्यार्थसाधनानि । पृथक् पृथगिति । देवायतनचैत्ययोरिति शेषः । ब्राह्मणैर्देवताः पूजनीया इत्यर्थः-गो. चैत्याः-रथ्यावृक्षाः-ती.ति.