पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
26
[अयोध्याकाण्डः
दशरथेन रामानुशासनम्

 [१]अहतानि च वासांसि रथं सर्वायुधान्यपि ।
 चतुरङ्गबलं चैव गजं च शुभलक्षणम् ॥ १० ॥

 अहतं-सदशं अधृतं नूतनम् ॥ १० ॥

 चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ।
 शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम् ॥ ११ ॥

 शातकुम्भानां-सुवर्णनिर्मितानामिति यावत् ॥ ११ ॥

 [२]हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च ।
 उपस्थापयत प्रातरग्न्यगारं महीपतेः ॥ १२ ॥
 यच्चान्यत्किंचिदेष्टव्यं तत्सर्वमुपकल्प्यताम् ॥ १३ ॥

 यच्चान्यदिति । अनुक्तं लोकसिद्धं गन्धपुष्पादिकमवश्यमेव एष्टव्यमस्ति तदपीत्यर्थः । अग्न्यगारं-अग्निहोत्रगृहम् ॥ १२ ॥

 अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च ।
 चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः ॥ १४ ॥

 अन्तःपुरं-राजवेश्म । घ्राणहारिभिरिति । घ्राणतर्पणौरित्यर्थः ॥

 प्रशस्तमन्नं [३]गुणवद्दधिक्षीरोपसेचनम् ।
 द्विजानां [४] शत[५]साहस्रं यत्प्रकाममलं भवेत् [६] ॥ १५ ॥
 सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम् ।
 घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः ॥ १६ ॥


  1. "ईषद्धौतं नवं श्वेतं सदशं यन्न धारितम् । अहतं तद्विजानीयात् दैवे पित्र्ये च कर्मणि " इत्युक्तरीत्या अहतं सदशं धौतं नूतनमित्यर्थः-गो.
  2. हिरण्यश्रृङ्गं-हिरण्यालङ्कृतश्रृङ्गम् ।
  3. विधिव-ङ.
  4. विषयसप्तमी-गो
  5. साहस्रे ङ.
  6. तत् संपाद्यतामिति शेषः- गो.