इति प्रत्यर्च्य तान् राजा ब्राह्मणानिदमब्रवीत् ।
वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ॥ ३ ॥
प्रत्यर्चितान् नृपान् कृत्वा अथ ब्राह्मणानिदमब्रवीदिति योजना । तेषामित्यादि । ब्राह्मणेषूपशृण्वस्विति यावत् ॥ ३ ॥
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः ।
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ॥ ४ ॥
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत् ।
शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः ॥ ५ ॥
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत् ॥ ६ ॥
जनघोष इति । रामाभिषेकसम्भारसम्भरणश्रवणज इति शेषः । वसिष्ठं इति । वामदेवमिति शेषः ॥ ६ ॥
अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ।
तदद्य भगवन् ! सर्वमाज्ञापयितुमर्हसि ॥ ७ ॥
परिच्छदः-परिकरः ॥ ७ ॥
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ।
आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन् ॥ ८ ॥
युक्तान् सावधानान्, मन्त्रिण इति शेषः ॥ ८ ॥
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि ।
शुक्लमाल्याश्च लाजांश्च पृथक् च मधुसर्पिषी ॥ ९ ॥
बलीन्–विघ्नशान्तिप्रयोजनबल्यर्थपदार्थान् । पृथक्-पृथक्पा-त्रगृहीते ॥ ९ ॥