पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
24
[अयोध्याकाण्डः
दशरथेन रामानुशासनम्

 तं [१]देव देवोपममात्मजं ते
  सर्वस्य लोकस्य हिते निविष्टम् ।
 हिताय नः क्षिप्रमुदारजुष्टं
  मुदाऽभिषेक्तुं वरद ! त्वमर्हसि ॥ ५५ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अयोध्याकाण्डे द्वितीयः सर्गः

 तं, देवेति राज्ञः सम्बुद्धिः । उदारजुष्टं-प्रशस्तगुणैरुपाश्रितं, उदारैर्महद्भिश्च परिगृहीतम् । मर्म (५५) मानः सर्गः ॥ ५५ ॥

इति श्रीमद्रामायणामृतकतकटीकाय अयोध्याकाण्डे द्वितीयः सर्गः


तृतीयः सर्गः
[दशरथेन रामानुशासनम् ]

 तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः ।
 प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ॥ १ ॥

 एवं निश्चिताभिषेकस्य सम्भारसम्भरणप्रवृत्तिः-तेषामित्यादि । अञ्जलिरूपाणि पद्मानि तथा । प्रगृहीतानीति-प्रकर्षेण शिरसि बद्धानि इत्यर्थः । वीक्षणवचनप्रत्यञ्जलिभिर्यथायोगमञ्जलीनां प्रतिग्रहः इति ॥

  [२]अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम ।
 यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ॥ २ ॥


  1. देवदेवः-विष्णुः, तत्सदृशमिति वा-गो.
  2. अहोऽस्मीति सन्धिरार्षः । प्रभावः-- वैभवं, आनन्दानुभवसाधनम् ।