पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (द्वितीयः भागः – अयोध्याकाण्डः-१).pdf/६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२ सर्गः]
23
सुसंहृष्टोऽभवद्राजा श्रुत्वा निजसुतस्तवम्

 लोकपालोपमं नाथमकामयत मेदिनी ।
 वत्सः श्रेयसि जातस्ते दिष्ट्याऽसौ तव राघव ! ॥ ४९ ॥
 दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव काश्यपः ।

 श्रेयसि-श्रेयोनिमित्तं ते वत्सः-पुत्रः संजातः । मरीचिप्रजापतिपुत्रो मारीचः ॥ ५० ॥

 बलमारोग्यमायुश्च रामस्य विदितात्मनः ॥ ५० ॥
 देवासुरमनुष्येषु सगन्धर्वोरगेषु च
 आशंसन्ते जनाः सर्वे राष्ट्रे पुरवरे तथा ॥ ५१ ॥
 आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ।

 देवासुरेत्यादि । देवासुरादिलोकेषु ये देवादयः सन्ति ते च बलाद्याशंसन्त इति योजना ॥ ५२ ॥

 स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः ॥ ५२ ॥
 सर्वान् देवान् नमस्यन्ति रामस्यार्थे यशस्विनः ।

 रामस्यार्थ इति । रामस्य बलारोग्यादिप्रयोजनार्थमित्यर्थः ॥  तेषामायाचितं देव ! त्वत्प्रसादात्समृद्ध्यताम् ॥ ५३ ॥  आयाचितं-अभिप्रार्थितं रामाभिषेकविषयं त्वत्प्रसादात् समृद्ध्यतां–समृद्धं संपन्नं भवत्वित्यर्थः ॥ ५४ ॥

 राममिन्दीवरश्यामं सर्वशत्रुनिवर्हणम् ।
 पश्यामो यौवराज्यस्थं तव [१]राजोत्तमात्मजम् ॥ ५४ ॥


  1. राजोत्तमेति सम्बुद्धिः ।